________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभावाभावरूपत्वात्, सर्वस्य प्रतियोगिनः । तत्सम्बन्धेषु वैशिष्ट्य- रूपत्वं चेत् न मन्यते ॥ ३ ॥ नेति धीस्त तन्न स्यान्नहि सा कालिकादिना । वैशिष्ट्यत्वे तु तेष्विष्टे संसर्गाकारगौरवम् ॥ ४ ॥ धर्मातिरेके तद्धर्मः स्पर्द्धयैवातिरिच्यते । जात्यन्तरात्मके तत्त्वे किमसाध्यं विवक्षया ॥ ५ ॥ विशिष्टे लक्षणाऽन्येषामविशिष्टे च कस्यचित् । जात्यन्तरं त्वखण्डं वा, खण्डशो वा प्रतीयताम् ॥ ६ ॥ इतीह वैशिष्ट्यमनेकमेकं, समर्थितं न्यायविशारदेन । स्वरूपविश्रान्तिजुषा च तेन भग्ना परेषां समवायवृत्तिः ॥ ७ ॥ " ॥ ६६ ॥
अपरः प्राह, मा भूत्कार्यकारणादीनामन्यतैकान्तः परमाणूनां तु नित्यत्वात् सर्वास्ववस्थास्वन्यत्वाभावादनन्यतैकान्त इति तं प्रति संप्रत्यभिधीयते ।
अनन्यतैकान्तेणूनां संघातेपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा ॥ ६७ ॥
यथैव हि विभागे सति परमाणवोऽसंहतात्मानस्तथा संघातकालेपि स्युः, सर्वथान्यत्वाभावादन्यत्वे तेषामनित्यत्वप्रसङ्गात् । संघातकाले कार्यस्योत्पत्तेस्तदसमवायिकारणस्व संयोगस्वभावं संहतत्वं भवत्येवेति चेत्, न तेषामतिशयानुत्पत्तौ संयोगस्यैवासंभवात् पृथिव्यादिभूतचतुष्कस्यावयविलक्षणस्य भ्रान्तत्वप्रसङ्गात् । कर्मणोतिशयस्य प्रसूतेः संयोगः परमाणूनामिति चेत्, न कथंचिदन्यत्वाभावे तद्योगात् । क्षणिकत्वात्परमाणूनामदोष इति चेत्तथापि कार्यकारणादेरभेदैकान्ते धारणाकर्षणादयः परमाणूनां संघातेपि मा भूवन्वि - भागवत् । विभक्तेभ्यः परमाणुभ्यः संहतपरमाणूनां विशेषस्योत्पत्तेर्धारणाकर्षणादयः संगच्छन्ते एवाधोमुखसोदककमण्डलुवद्वंश रज्वादिवच्चेति चेत्स तर्हि तेषां नाहितोपि विशेषो विभागकान्तं निराकरोति, तन्निराकरणे परमाणुत्वविरोधादेकत्व परिणामात्मकस्कन्ध
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir