________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम्॥
॥२९॥
निश्रेणी । अपि च जातिसाधारणसमवायसिद्धौ जातेरर्थवत्त्वापत्तिः, यत्र यत्सम्बन्धवत्वं तत्र तद्वत्त्वमिति नियमस्य ग्रन्थकृतैव परिच्छेदः | पूर्व सूचितत्वात् , तत्र तस्य तद्वृत्तित्वानियामकत्वान्नेयमिति चेत् , तदपि कुतः, तथा विशिष्टबुद्ध्यभावादिति चेद् , व्यक्त लाचतुर्थः॥ इतरेतराश्रयः, तत्र तद्वृत्तितानियामकसम्बन्धाभावे तथा विशिष्टबुद्ध्यभावस्तदभावाच्च स इति, तस्माद् व्यक्तिस्वरूपस्य जाती वृत्त्यनियामकत्वमित्यसन्मतमेव श्रेय इति । यदपि द्रव्यजात्यन्यचाक्षुषे महदुद्भूतरूपवद्भिन्नसमवेतत्वेन प्रतिबन्धकत्वात् समवायसिद्धिरिति कैश्चिदुच्यते, तदपि तुच्छं, द्रव्यान्यसच्चाक्षुषत्वावच्छिन्ने महदुद्भूतरूपवद्भिन्नवृत्तित्वेन प्रतिबन्धकत्वकल्पनाया एवौचित्यात् , तदेवं लाघवादेकः समवायो यैः साध्यते तेषामितोऽपि लाघवाद्वैशिष्ट्यमेकं बलादापतेदिति नियूंढम् । यः पुनराह-नेत्याकारकाभावप्रत्यक्षापत्तेरयोग्याभावप्रत्यक्षापत्त्या च प्रतियोगिविशिष्टतत्तदभावप्रत्यक्षे तत्तदभावविशेषणता हेतुरतो नाभावमात्रस्य वैशिष्ट्यसिद्धिरिति, सोऽपि न प्रेक्षापूर्वकारी, भावाभावसाधारण्येन लाघवादेकवैशिष्ट्यसिद्धौ विशिष्यप्रत्यासत्तौ तन्निवेशस्याबाधकत्वात् , अन्यथा समवायैक्येऽप्यगतेः, तस्यापि व्याप्यवृत्त्यव्याप्यवृत्यादिगुणप्रत्यक्षानुरोधेन विशिप्यापि प्रत्यासत्तिघटकत्वात् , प्रतियोगिज्ञानादिकारणतयोक्तापत्तिनिरासेनाभावप्रत्यक्षे विशेषणतायाः सामान्यतः प्रत्यासत्तिताया एव युक्तत्वाच्च । वस्तुतः सत्तापि सामान्यत एका विशेषणभेदाच्च भिन्नेत्युक्तं, समवायोऽपि च त्वया लाघवादेको रूपिनीरूपव्यवस्थानुरोधेन च गलेपादिकया नाना स्वीकार्यः, तद्वत् वैशिष्ट्यमप्येकानेकरूपत्वेन वैश्वरूप्यं विभ्रत् केन प्रत्याख्यातुं शक्यम् । ततश्च-"एकं स्वीकुरु वैशिष्ट्यं, समवायं विमुश्च वा । क्रीडाकान्दुकतां नेय, इति नैयायिको बुधैः ॥१॥ नाशस्य प्रागभावत्वं, प्रागभावस्य नाशता। घटादौ तस्य सम्बन्ध, वैशिष्ट्याख्यं विना कथम् ॥२॥
॥२९॥
For Private And Personal Use Only