________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री सामान्यविशेषरूपत्वे तन्त्वादेरित्यू(रप्यू)यतासामान्येनान्वयान्नात्यन्तासत्त्वं कार्यस्येत्यागतमित्याशयेनाह-यथा दर्शनमि- परिच्छेदः विवरणम् ॥
त्यादिना शोभेतेत्यन्तेन, एतेन शक्तेनियामकत्वमपि व्याख्यातं, द्रव्यार्थतया सत्त्वस्यैव तदर्थत्वात् , विशेषकान्तवादी सामा-17 | तृतीयः॥
न्यानुपलब्धिमादाय शङ्कते-ननु चेत्यादिना, सिद्धान्तवादी विशेषानुपलब्धिमादायोत्तरयति नेत्यादि, इदे वह्निर्नेत्यत्रैव तर्कि॥२६५॥
तप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वेन योग्यानुपलब्ध्या निरपेक्षान्यतराभावसिद्धरुभयैकरूपतामुपसंहरति-तस्मादित्या
दिना, भाष्यकृत्-'अनन्वयस्यैवेति' न विद्यतेऽन्वयः सामान्यस्य विशेषेण सह यत्रेत्यान्निरपेक्षान्यतरपरिग्रहः ॥४३॥ ॐ न हेतुफलभावादिरन्यभावादनन्वयात् । सन्तानान्तरवन्नैकः सन्तानस्तद्वतः पृथक् ॥४३॥
क्षणिकैकान्तपक्षेपीऽति विवर्तते । तेन पूर्वोत्तरक्षणानां न हेतुफलभावो वास्यवासकभावः कर्मफलसंबन्धः प्रवृत्त्यादिर्वास्ति, सर्वथाऽनन्वये सत्यन्यभावात् संतानान्तरवत् । तेषामेकसंतानत्वात्सोस्तीति चेत् , न, एकसंतानस्य तद्वतः पृथगसत्त्वात् , संतानिन एवापरामृष्टभेदाः सन्तान इति स्वयमभ्युपगमात् सर्वेषां वैलक्षण्याविशेषात् । सन्तानसंकरप्रसङ्गश्चाविशेषेणापरामृष्टभेदत्वस्य संभवात् , एते एवाभेदपरामर्शविषया न पुनरन्ये इति विशेषनिबन्धनस्याभावात् । विलक्षगानामत्यन्तभेदेपि स्वभावतः किलासंकीर्णाः संततयः कर्मफलसंबन्धादिनिबन्धनं शशविषाणस्येव वर्तुलत्वमाचरितं कश्चेतनः श्रद्दधीत ? प्रत्यक्षेणाप्रतीतेथें स्वभावस्याश्रयितुमशक्यत्वात् " प्रत्यक्षेण प्रतीतेऽर्थे यदि पर्यनुयुज्यते । स्वभावैरुत्तरं वाच्यं दृष्टे कानुपपन्नता” इति स्वयमभिधानात् । न च परस्परं विलक्षणानामेव क्षणानामत्यन्तमन्वयासत्त्वेष्यन्तर्बहिर्वा संततयोऽसंकीर्णा एव प्रत्यक्षतः प्रतीताः, तस्यैकक्षणगोचरतया संतानाविषयत्वात् । नाप्यनुमानतः, स्वभावस्य कार्यस्य वा तल्लिङ्गस्य प्रतिबद्धस्यानवधारणात् । प्रत्यभिज्ञानादि तदनुमाने लिङ्गमिति चेत् , न, तस्य कचि- २६५॥
KAMASSACREADCASA
For Private And Personal Use Only