________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ॥२६१॥
www.kobatirth.org
सत्येव था । सत्येव कारणे यदि कार्य, त्रैलोक्यमेकक्षणवर्त्तिं स्यात्, कारणक्षणकाल एव सर्वस्योत्तरोत्तरक्षणसंतानस्य भावात्, ततः संतानाभावात्पक्षान्तरासंभवाच्च । इति स्थितमेव साधनं सर्वथार्थक्रियाविरोधादिति साध्यं च क्षणिकपक्षो बुद्धिमद्भिरनादरणीय इति, प्रत्यभिज्ञाद्यभावात्प्रेत्यभावाद्य संभव इति च, अस्मिन्पक्षे प्रयासाभावात् । यदि पुनरसत्येव कारणे कार्य तदा कारणक्षणात्पूर्वं पश्चाचानादिरनन्तश्च कालः कार्यसहितः स्यात् कारणाभावाविशेषात् । तदविशेषेपि कार्यस्य स्वयं नियतकालत्वे नित्यस्य सर्वदा भावाविशेषेऽपि तत्स्यादित्युक्तम् । किं च क्षणिकपक्षे न तावत्सदेव कार्यमुत्पद्यते स्वमतविरोधादुत्पन्त्यनुपरमप्रसङ्गाच्च ॥ ४१ ॥
'तस्यावस्तुत्वविरोधादिति' सन्तानात्कार्यारम्भस्वीकारे तस्यावस्तुत्वं यत्सौगतैः प्रतिपाद्यते तद्विरुध्यत इत्यर्थः । 'भिन्नकालेति' स्याद्वादिनां तु कारणक्षणस्य द्रव्यप्रत्यासच्या कार्यकालेऽपि सच्चान्न सर्वथा भिन्नकालत्वमिति नोभयोरस्य दोषस्य तुल्ययोगक्षेमत्वम्, न च स्वाभिन्नद्रव्यसामान्याभिन्नत्वादिनाऽतिप्रसङ्गः, अनन्तधर्मात्मके वस्तुनि द्रव्यप्रत्यासत्तेविंशिष्य भेदेऽनुपपत्त्यभावात्, यथा चास्माभिरुपादेयोत्पत्तावुपादानस्य स्वध्वंसत्वसम्बन्धेन नियामकत्वमुक्तं तथासमर्थने न दोषलेशोऽपि, स्वध्वंसत्वस्यापि द्रव्यपरिणतिप्रयुक्तत्वेन द्रव्यप्रत्यासचिताया अक्षतत्वादिति मन्तव्यम् । 'तदसत्येव हीति' भावप्रधाननिर्देशात्तदसत्व एव हीत्यर्थः । 'स्वदेशयत् स्वकाल इति, ' कार्याधिकरणदेशावच्छिन्नकार्यकाल इत्यर्थः । 'न कश्चिद्विशेष इति यदा कारणं तदव्यवहितोत्तरसमये कार्योत्पत्तिरिति व्याप्तौ अव्यवहितत्वप्रवेशे बीजाभावात्, अव्यवहितत्वस्य द्वित्रादिक्षण साधारण्येन विनिगमकाभावाचेत्यर्थः, व्यवहितजन्मनि कार्यत्वबुद्ध्यनुदयादव्यवहितत्वप्रवेशे तु कार्याभावकालोत्पत्तिकेऽपि तदनुदयात् कथञ्चित्कार्य सहभावोऽपि कारणस्य कार्योत्पत्तिनियामक आस्थीयतामिति भावः । ' तादृशोऽ-'
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेद| स्तृतीयः ॥
॥२६१॥