SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir A AMANACEACCASCR5 द्विरोध्यविरोधकभावादिवत् प्रतिक्षणं विवर्तोपि नेष्यते संविदद्वैताभ्युपगमादिति मतिस्तदा प्रभवादेरयोगात् कुतः प्रेत्यभावादिः ? स्याद्वादिभिरापाद्यस्य प्रेत्यभावपुण्यपापक्रियाबन्धमोक्षतत्फलाभावस्य स्वयमेवाभ्युपगमादतिमीतप्रलापमात्रमेतदालक्ष्यते, संविदद्वैतस्य साधनासंभवात् , संविन्मात्रस्य स्वकार्याकरणेऽनर्थक्रियाकारिणो वस्तुत्वविरोधान्नित्यत्ववत् , तस्य स्वकार्यकरणे कार्यकारणस्वभावसिद्धेः । संविदद्वैतेन भेदभ्रान्तिबाधने बाध्यबाधकभावः । तदबाधने तस्याव्यवस्थितिः प्रतिपक्षव्यवच्छेदाभावात् । संवृत्तिमात्रेण सत्यपि हेतुफलभावेऽकारणकार्यान्तरवत्सन्ततिर्न स्यादतादात्म्याविशेषात् । न हि कार्यकारणक्षणानामकार्यकारणक्षणेभ्यस्तादात्म्याभावैकान्ते कश्चिद्विशेषो नैरन्तर्यादिः संभवति, तस्य भिन्नसंतानकार्यकारणक्षणेष्वपि भावात् । तत्स्वभावविशेषावकुप्तौ तादात्म्ये कोऽपरितोषः ? कथंचित्तादात्म्यस्यैवैकसंतानक्षणानां स्वभावविशेषस्य व्यवस्थितेरव्यभिचारिणः कार्यकारणभावस्य सुगतेतरक्षणेषु भिन्नसंतानेष्वपि भावात् , भेदतादात्म्ययोर्हि विरोधस्य सर्वथाप्यपरिहार्यत्वात् , संविदि वेद्यवेदकाकारभेदेऽपि तादात्म्योपगमादन्यथैकज्ञानत्वविरोधात्, संविदाकारवेद्याद्याकारविवेकयोः प्रत्यक्षपरोक्षयोभैदेपि संविदेकत्वाङ्गीकरणात् , कथंचित्तादात्म्याभावे संताननियमनिबन्धनस्य स्वभावविशेषस्यानुपलब्धेः । तत्संतानापेक्षया प्रेत्यभावादि मा मस्त, क्षणक्षयैकान्ते संतानस्यैव साधयितुं दुःशक्यत्वात् , ज्ञानज्ञेययोः प्रतिक्षणं विलक्षणत्वात् । स एवाहं तदेवेदमिति प्रत्यभिज्ञानादनुस्मरणादभिलाषादेश्च संताननियमसिद्धिरिति चेत्, न, तस्यैवासंभवात् । सर्वथा वैलक्षण्ये पुंसोऽर्थस्य च न वै प्रत्यभिज्ञानादिः पुरुषान्तरवदर्थान्तरवञ्च । ततः कर्मफलसंबन्धोपि नानासंतानवदनियमान्न युक्तिमवतरति । तदनादिवासनावशात्तन्नियम इति चेत् , न, कथंचिदप्यतादात्म्ये कार्यकारणक्षणयोस्तदघटनात्तद्वत् । तत्सूक्तं 'क्षणिकपक्षो बुद्धिमद्भिरनादरणीयः सर्वथार्थक्रियाविरोधान्नित्यत्वैकान्तवत्'। न चार्थक्रिया कार्यकारणरूपा सत्येव कारणे स्याद For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy