________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
बष्टसहस्री विवरणम् ।।
परिच्छेदः द्वितीयः॥
॥ २३७॥
(स) तदिदं ब्रह्मापि तत्वेन वस्तुतोऽपरोक्षमपि मोहादज्ञानात् , पारोक्ष्यदूषितं दोषप्रयोज्यपारोक्ष्याभिलापाक्रान्तम् , ईक्ष्यत इत्युत्तरक्रियान्वयः । तथैव स प्रसिद्ध आत्मा ब्रह्मापि ब्रह्माभिन्नोऽपि, मोहादज्ञानात् , सद्वितीयतया भेदाक्रान्ततयेक्ष्यते । आत्मा ब्रह्मेति वेदान्तफलीभूततत्त्वज्ञाने सति ब्रह्मण्यध्यस्तयोः पारोक्ष्यसद्वितीयत्वयोधिने सति, शास्त्रं पुमर्थे निश्चितं निश्चितपुरुषार्थं जातम् , इति हेतोः, अज्ञाननिवृत्त्यैव कण्ठगतचामीकरोपलम्भन्यायेनोद्देश्यसिद्धेरित्यर्थः ॥२६॥
अद्वैतं न विना द्वैतादहेतुरिव हेतुना । संज्ञिनः प्रतिषेधो न प्रतिषेध्याहते क्वचित् ॥ २७ ॥
कथं पुनर्हेतुना विनाऽहेतुरिवाद्वैतं द्वैताद्विना न सिद्धयतीति निश्चितमिति चेत् , उच्यते, अद्वैतशब्दः स्वाभिधेयप्रत्यनीकपरमार्थापेक्षो | नपूर्वाखण्डपदत्वादहेत्वभिधानवदित्यनुमानात् । अनेकान्तशब्देन व्यभिचार इति चेत् , न, तस्यापि सम्यगेकान्तेन विनानुपपद्यमानत्वात् । एवममायादिशब्देनापि न व्यभिचारः, तस्य मायादिनाऽविनाभावित्वात् । तथा नम्पूर्वग्रहणात् केवलेन शब्देन व्यभिचारो निरस्तः, पदांशेनाखण्डग्रहणात् अखरविषाणादिशब्देन च न । ततो नात्र किंचिदतिप्रसज्यते, तादृशो नयो वस्तुप्रतिषेधनिबन्धनत्वात् । न ह्यखण्डपदविशेषणस्य नत्रः क्वचिदवस्तुप्रनिषेधनिबन्धनत्वमुपलब्धं, पदान्तरोपहितपदविशेषणस्यैव तथा प्रतीतेरखरविषाणमित्यादिवत् । अत एव सर्वत्र प्रतिषेध्याहते संज्ञिनः प्रतिषेधाभावः प्रत्येतव्यः । न हि खरविषाणं संज्ञि किंचिदस्ति, येन तस्यापि सत एव कथंचित् प्रतिषेधः प्रसज्यते । ननु पुरुषाद्वैते परमार्थतः प्रतिषेधव्यवहारासंभवात् परोपगतस्य द्वैतस्य परप्रसिद्धन्यायादेवानुमानादिरूपादभावः साध्यते, न च स्वपरविभागोपि तात्त्विकः, तस्याविद्याविलासाश्रयत्वात् , ततो न कश्चिद्दोष इति चेत्, न, अविद्याया एव व्यवस्था
॥२३७ ॥
For Private And Personal Use Only