SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandi साधनत्वापत्तेः, प्रकृतानुमानागमयोरिव स्वसंवेदनप्रत्यक्षस्यापि साधनस्याभावात् , स्वतः सिद्धं ब्रह्मेयभ्युपगमे द्वैतमपि स्वतः सकलसाधनाभावेपि किं न सिध्येत् ? तत्त्वोपप्लवमानं वा ? नैरात्म्यं वा ? स्वाभिलापमात्राविशेषात् , सर्वस्य सर्वमनोरथसिद्धिरपि दुर्निवारा स्यात् । एतेनैतदपि प्रत्याख्यातं यदुक्तं बृहदारण्यकवार्तिके "आत्मापि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम् । ब्रह्मापि स तथैवात्मा सद्वितीयतयेक्ष्यते ॥ १ ॥ आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात् । पुमर्थे निश्चितं शास्त्रमिति सिद्धं समीहितम् ॥ २ ॥” इति, मोहस्या विद्यारूपस्याकिंचिद्रूपत्वे पारोक्ष्यहेतुत्वाघटनात् सद्वितीयत्वदर्शननिबन्धनत्वासंभवात् , तस्य वस्तुरूपत्वे द्वैतसिद्धिप्रसक्तेस्तत एव पारोक्ष्यसद्वितीयत्वयोर्बोधनात , पुमर्थे निश्चितं शास्त्रमित्येतस्यापि द्वैतसाधनत्वात् , शास्त्रपुमर्थयोर्भेदाभावे साध्यसाधनभावासंभवात् ॥२६॥ तदभावानुपपत्तेः प्रतिभासस्वरूपाभावानुपपत्तेः, 'तहीति' प्रतिभासविषयताया अभेदनियतत्वादिति भावः । यदि | पुनरागमोऽपीति मृन्मयगजभानेऽपि मृद्भानवत् सर्वत्र ब्रह्मभानेन तद्विषयत्वेनैवागमज्ञानस्यापि सत्यत्वादिति भावः । | 'ऊर्ध्वमूलमिति' ऊर्ध्व शुद्धबुद्धस्वरूपावस्था मूलं यस्य स तथा तम् , अधोऽविद्याजन्यप्रपञ्चविलासावस्था शाखा यस्य स तथा तम् , असिद्धत्वं स्यादिति विशिष्याज्ञानादित्यर्थः, सामान्यज्ञानं तु सन्देहाविरोधि, सर्व ज्ञानं शब्दब्रह्मविषयं वेति | सन्देहस्याप्यन्ततः सम्भवादिति स्मर्त्तव्यम् , स्वविषयस्य प्रतिभास्यस्य, सर्वथा भेदवत् सर्वथा भेदपक्ष इव । कथञ्चिङ्गेदप्रसिद्धेरिति स्वरूपपदस्य विशेषपरत्वादिति भावः । साध्यस्यैव साधनत्वापत्तेब्रह्मान्तर्भावात् , साधनस्य पृथक्साधनत्वेन विवक्षितस्याभावादित्यन्वयः । किं न सिद्ध्येदिति, श्रुतेरद्वैतविषयिण्या इव द्वैतविषयिण्या अपि बहुश उपल| म्भादित्यर्थः । स्वस्वाभ्युपगममात्रेण चान्योऽप्यतिप्रसङ्गो दुर्निवार इत्याह-तत्त्वोपप्लवमात्रं वेत्यादिना, आत्मापीति For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy