________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
हन्तैवं कृतकत्वेनानित्यत्वानुमानेऽपि व्याप्तिर्नाभिधेया, तस्या उभयसिद्धत्वादिति चेत्, न । कथादशायां समयविषयतया दूषणेष्वगमकताव्याप्युपस्थितिधौव्यात्, कृतकत्वेनानित्यत्वानुमाने तु तथानियमाभावात्तद्व्याप्तिमनङ्गीकृत्यापि कथासम्भवात् । यस्तु कथारम्भे बाधकस्यासाधकत्वव्याप्तिं नाङ्गीकरोति, तं प्रति तद्दृषणत्वं प्रसाध्य पञ्चावयवप्रयोगः कर्त्तव्य एव । तद्व्याप्युपगमनियतसमयबन्धे तु न पञ्चावयवप्रयोगश्चारुतामञ्चतीति । वयं तु ब्रूमः, साधकत्वेऽसाधकत्वेऽन्यत्र वाङ्मेयेऽवयवप्रयोगः प्रतिपाद्यानुसारेणैव विधेयः, अत एवैकावयवाद्या दशावयवान्ता जघन्यमध्यमोत्कृष्टभेदभिन्ना कथा प्रसिद्धा, तथा चास्माकमाकरग्रन्थः । लिङ्गं केवलमेव यत्र कथयन्त्येषा जघन्या कथा, द्व्यादीन् यत्र निवेदयन्त्यवय| वानेषा भवेन्मध्यमा ॥ उत्कृष्टा दशभिर्भवेदवयवैः सा जल्पितैवेत्यमी, जैनैरेव विलोकिताः कृतधियां वादे त्रयः सत्पथाः ॥ १ ॥ " इति । यदा हि प्रतिपाद्यः क्षयोपशमविशेषान्निर्णीतपक्षो गृहीतव्याप्तिकश्च भवति, तदा तं प्रति हेतुप्रतिपादनमेव कार्य, धूमोऽत्र दृश्यत इति, यदा त्वस्य नाद्यापि पक्षनिर्णयस्तदा तं प्रति पक्षोऽपि प्रयुज्यतेऽग्निरत्र धूमान्यथानुपपत्तेरिति, यः प्रतिबन्धग्राहिप्रमाणस्य न स्मरति तं प्रति दृष्टान्तोऽप्युपदिश्यतेऽग्निरत्र धूमाद्, यत्र धूमस्तत्राग्निर्यथा महानस इति, दार्शन्तिके हेतुं योजयितुमजानानं प्रत्युपनयः, एवमपि साकाङ्क्ष प्रति निगमनं, पक्षादिस्वरूपविप्रतिपन्नं प्रति पक्षशुद्धयादयश्चेति, तत्केयं प्रक्रियासाधकतानुमाने यथा विप्रतिपन्यवयवप्रयोगोऽन्यत्र तु पञ्चावयवप्रयोग एवेति, प्रतिपाद्यानुरोधेनैकादिप्रयोगस्यापि सम्भवात्, अवयवान्तरैकवाक्यत्वादेस्तत्रार्थिकस्यैव सम्भवात् पञ्चावयवैकवाक्यताया अपि यथाकथञ्चिदेव दीधित्यादायुक्तत्वात्, अवयवप्रयोगे स्याद्वादस्यैवाश्रयणीयत्वात्, तदिदमाहुः - 'अन्यथानुपपत्त्येक-लक्षणं लिङ्ग
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir