SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥ २२० ॥ www.kobatirth.org क्षोत्तीर्णेऽगमकत्वस्य कालविशेषघटितस्वरूपसम्बन्धाभाव एव, घटानयनदशायां भूतले घटाभावस्यैवेति युक्तम् ॥ अत्र चाहेतोरगमकलागमकत्वेन सदुत्तरत्वं जात्यादीनां च स्वासाधकतासाधारण्येन परासाधकता साधकतया स्वव्याघातकत्वादसदुतरत्वमिति विभागं वदन्ति तार्किकाः । न च विरुद्धत्वादिज्ञानादेव स्वानुमितेरिव परानुमितेरपि प्रतिबन्धे किमसाधकतानुमानेन, यद्वचसि वायुक्तदूषणावगतिः स निगृहीत इति समयबन्धेन कथाप्रवृत्तौ हि दूषणमात्रमुद्भाव्यं, न त्वन्यत् साधनीयमर्थान्तरापत्तेरिति वाच्यम्, परेण यामनुमितिमुद्दिश्य प्रयोगः कृतस्तत्प्रतिबन्धेन स्थापनायामसाधकतासाधनेन च द्विधा दूषणत्वव्यवस्थितेः, आद्यस्य दूषणमात्रज्ञानादुपपत्तावपि द्वितीयस्यालिङ्गत्वज्ञापनं विनाऽसम्भवात्, यद्यप्यसाधकतानुमितिरनावश्यकी, तदभावेऽपि स्वपक्षसिद्धेस्तद्व्याघातकतया च परानुमितेः प्रतिबन्धकोपन्यास एवावश्यकः, तथापि दूषणत्वप्रकारान्तरापेक्षायां क्वाचित्कस्तदुपन्यासः सामयिक इति निगर्वः । अथागमकतासाधने नियमतः पञ्चावयवप्रयोगापेक्षा स्यात्, अन्यथा न्यूनत्वापत्तिरिति चेत् न । दूषणस्यासाधकताव्याप्यत्वमङ्गीकृत्य कथेति तत्पक्षधर्मतामात्रस्यैवोद्भाव्यत्वात्, अन्यथाऽऽकांक्षिताधिकाभिधानेनार्थान्तरापत्तेः । अथासाधकत्वव्याप्तिप्रतिसन्धानमगमकत्वेन तन्त्रम्, अनुमितिप्रतिबन्धकतावच्छेदकत्वरूपद्पणत्वविषयस्यैव तत्र तत्रत्वात् न चानुमितिप्रतिबन्धकतावच्छेदकमनुमित्यभावनियतं यज्ज्ञानं तद्वत्त्वम्, तथा च यत्र विरुद्धत्वादिज्ञानं तत्रानुमित्यभाव इति व्याप्तिज्ञानधौव्यमिति वाच्यम्, अनुमित्यभावस्यासाधकतारूपत्वाभावात्, अनुमित्यभावप्रयोजकज्ञानविषयतावच्छेदकरूपस्यैव तत्त्वात्तद्व्याप्तेश्चाप्रतिसंहितत्वादिति चेत्, न । तद्रूपस्य विरुद्धत्वादिना सहचारधीधौव्येण व्याप्तिग्रहावश्यकत्वमित्यत्र तात्पर्यात् । अत एव साध्यनिश्चये सत्यनुमित्साधीनया पक्षतया तदनुमितिरिति ग्रान्थिकाः For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir %%%% परिच्छेदः प्रथमः ॥ ॥ २२० ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy