SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org त्यधिकं लतायाम् । अधिकरणस्वरूपाभावैकान्तवादं सौगतस्य निरस्यति - 'स्वलक्षणमेवेत्यादि' (४) तस्यान्यापोहस्य, सम्बन्ध्यन्तरापेक्षत्वात् (४) सम्बन्ध्यन्तरनिरूपणाधीननिरूपणत्वात्, तथा च सापेक्षनिरपेक्षत्वाभ्यां भेद आवश्यक इति भावः । सम्बन्ध्यन्तराणां वस्तुस्वभावाभेदकत्वे क्षणिकत्वसाधकमूलयुक्तिविरोध इत्याह-यदीत्यादिना (५) कारणानि (७) सहकारिकारणानि, तत्तन्निवर्त्तनात्मकानि (७) तत्तत्कार्योत्पादनस्वभावानि, इष्टापत्तिमाशङ्क्याह- 'न चैवमिति' (९) अविषममित्यकारप्र श्लेषेण व्याख्येयम् ' स्वभावभेदस्येति ' (१०) कुशूलनिहितबीजादंकुरोन्मुखबीजस्य क्षणिकत्वादिना भेदाभ्युपगमादित्यर्थः । प्रतिबन्धमविनाभावं, वस्तुतः (११) परमार्थतः, भेदं (११) स्वलक्षणं निरंशम्, तं (२१४-१-१३) स्वलक्षणाख्यं भेदम्, तदनेकस्वभावाभावे (१३) तस्य वस्तुनोऽनेकस्वभावानभ्युपगमे, विनिर्भाससम्भवात् (१३) सम्भवद्विनिर्भासबलात्, आत्मनि परत्र च (१३) विधौ प्रतिषेधे च, आदर्शयति (१४) संवृतिरिति शेषः । मुग्धायते (१४) इन्द्रजालायते, 'गुणानामिति' (२१४-२-२) गुणानां सच्त्वरजस्तमसाम्, सुमहद्व्यापकं साम्यावस्थाख्यम्, रूपं न दृष्टिपथमृच्छति, (२) न दर्शनकर्मी भवति, तद्व्याप्त चक्षुर्वृत्त्ययोगात्, यच्च दृष्टिपथप्राप्तं (२) ग्रामारामादि, तद्विकारित्वान्मायेवेन्द्रजालमिव, सुतुच्छकं बाढं मिथ्येति सांख्यमते व्याख्यानम्, वेदान्तिमते तु गुणानां नामरूपाख्यानाम् सुमहत् सर्वाधिष्ठानत्वेन महत्तरम्, रूपमस्तित्वभासमानत्वप्रियत्वोपलक्षितमखण्डं ब्रह्म, न दृश्यतामायाति, वृत्तिव्याप्यत्वेऽपि तस्य फलाव्याप्यत्वादिति व्याख्येयं पूर्वार्द्धम्, उत्तरार्द्ध प्राग्वत् । आरामं (२१४ - २ - ३) मेदप्रपञ्चम् तम् (३) अखण्डं पुरुषम्, व्यवहारनिर्भासान् (४) व्यवहारनियामकान् भेदान्, व्यवस्थापयति (५) विरुद्धत्वेनावस्थापयति निराकरोतीत्यर्थः, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy