SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः॥ अष्टसहस्री विवरणम् ॥ ॥ २१५॥ HAROSANSK सेत्स्यतीत्याशङ्कायामाह-'नचेत्यादि' (५) न चात्यन्तासत्यपीत्यादिश्रीहर्षोक्तरीत्या खपुष्पादावसत्वादिना शाब्दप्रमाविपयत्वाविरोधः, अवस्तुनि तत्सम्बन्धायोगात् , खपुष्पमसदित्यादेर्वाक्याद्वैज्ञानिकसम्बन्धेन कथश्चिद्विशिष्टे वैशिष्ट्यमिति रीत्या बोधोपपत्तावपि तस्याश्रयाश्रयिभावसम्बन्धेन भ्रमत्वध्रौव्यात् , भ्रमस्य च वस्त्वसाधकत्वात् , वस्तुतः खवृत्तित्वाभाववत् पुष्पमित्येव तत्तात्पर्यादिति भावः। आकाशाद्यात्मकस्वलक्षणं खपुष्पाद्यभाव इति न प्रतियोगिनः प्रमेयत्वव्याघात इति सौगतमतमाशङ्कते-'नच स्वलक्षणमेवेत्यादि' (२१३-२-६)। एकतानत्वासम्भवादेकाश्रयत्वासम्भवात् , तथा चास्य विकल्पस्य पारम्पर्येणापि स्वलक्षणाविषयत्वान्न प्रामाण्यं भ्रमाश्च न वस्तुसिद्धिरित्युक्तं भवति, विधिनियमौ भावाभावौ, खमस्ति तत्पुष्पं च नास्तीति (१२) निषेध्यप्रत्ययविशेषाकारप्रदर्शनम् 'तस्यानादीत्यादि' (१२) अनेन वस्तुस्वभावभेदनिबन्धनत्वनिषेधो दृढीकृतः। प्रधानगुणभावादिति (२१३-२-३) इन्द्रशब्दस्येन्द्रे प्रधानभावेन प्रवृत्तिरनिन्द्रे च गुणभावेनेत्यर्थः । न चैवं सर्वत्र नानार्थत्वापत्तिः, इष्टत्वाद् , व्यवहारविशेषस्य च कोशादिनियत्रितत्वेनानतिप्रसङ्गात् , अत एव न लक्षणोच्छेदः, कोशादिनियत्रितशक्त्यभावे तदवकाशस्याविरुद्धत्वादिति द्रष्टव्यम् ।। पररूपाणीति (२१४-१-३) परत्वापादकानीत्यर्थः। तेन पररूपावच्छिन्नाभाववद्व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावा अपि सङ्गहीता भवन्ति । स्वभावभेदा (४) इति भाववदभावस्य स्वभावत्वात्तस्य च प्रतियोगितावच्छेदकरूपसम्बन्धादिभेदेन भिन्नत्वादित्यर्थः, यत्तु पररूपावच्छिन्नाभावो व्यधिकरणसम्बन्धावच्छिन्नाभावेनैव गतार्थ इति भवदेवमतम् , तद्गतार्थमेव, विनिगमकाभावात्प्रतीतिशरणप्रथमकल्पनाया उभयत्र तौल्यात् , भूतले घटत्वेन पटो नास्ति न तु घट इत्यस्यायोग्यतापत्तेश्च, घटवत्यपि घटत्वसम्बन्धेन तदभावाक्षतेरि २१५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy