________________
Si Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पटादिनिजो घटादिः, ताभ्यां द्वाभ्यां सदसत्वं घटवस्तुनः प्रथमद्वितीयभङ्गनिमित्तं प्रधानगुणभावेन भवतीति सोपस्कारं व्याख्येयम् ।" समयमाईहिं इत्यनन्तरं तुर्गम्यः, द्वाभ्यामिति चानुवर्तते, समकमादिरादानं ययोस्ताभ्यां सहार्पिताभ्यां तु द्वाभ्यामित्यर्थः । वचनविशेषातीतं वचनस्य विशेषः शक्तिस्तमतीतमतिक्रान्तं सत् तथाविधवाचकाविषयीभृतमिति यावत् , द्रव्यं घटादि, अवक्तव्यम् , पतति अशक्तिभाराद्वक्तव्यताशिखरे स्थातुं न शक्नोतीत्यर्थः। अवक्तव्यतां वा पततीति व्याख्येयम् , तथाहि द्वयोधर्मयोःप्राधान्येन गुणभावेन वा प्रतिपादने न किश्चिद्वचः समर्थ, वृत्तौ द्वन्द्वस्यैवोभयपदप्रधानत्वात् , तस्य च द्रव्यवृत्तेः प्रकृतेऽनुक्तिसम्भवाद् , गुणवृत्तेरपि गुणानां परार्थत्वेन प्राधान्याघटनात् , प्रत्येकभङ्गस्थले एकधर्मस्यैकधर्म्युपचारेण प्राधान्यसम्भवेऽपि विरुद्धत्वेन प्रतीयमानयोधर्मयोरेकधर्म्युपचारायोगात् , वाक्यस्यापिवृत्त्यभिन्नार्थत्वेन तदनतिशायित्वात् , न च केवलं पदं वाक्यं वा लोक प्रसिद्ध तथा, तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् , न च तौ सदिति शतृशानचोरिव सङ्केतितकशब्दवाच्यत्वम् , विकल्पप्रभवशब्दवाच्यत्वप्रसङ्गात् , विकल्पानां च युगपदप्रवृत्तेर्नेकदा तयोस्तद्वाच्यतासम्भव इति । एतेन तदादिपदप्रतिबन्धपि निरस्ता । तत्रापि तत्तद्विकल्पप्रभवेन तच्छब्देन क्रमेणेवानेकार्थाभिधानात् , एकवचनान्तस्याप्येकशेषस्य "जहा एगो पुरिसो तहा बहवे पुरिसा" इत्याबागमसिद्धत्वात्, न च निजा
र्थान्तरैकताभ्युपगमेऽप्यर्थस्य वाच्यता, तथाभूतस्यात्यन्तासत्त्वेनावाच्यत्वात् , न च घटत्वे घटशब्दप्रवृत्तिनिमित्ते सिद्धेऽसम्बद्ध एव तत्र पटाद्यर्थप्रतिषेध इति द्वितीयभङ्गानवकाशात् तृतीयोऽपि दुरापास्त इति शङ्कमीयम् । पटादेस्तत्राभावाभावे घटशब्दप्रवृत्तिनिमित्तस्य घटत्वस्यैवासिद्धेः, प्रथमभङ्गोत्थापिताकासया द्वितीयभङ्गस्यावश्यप्रयोज्यत्वात् , तदुभयविषयसहार्प
42
C+
C+
+
For Private And Personal Use Only