________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ।। ॥२०॥
परिच्छेदः प्रथमः॥
नेन चरमभङ्गत्रयसमर्थने वेदान्त्यभिमतमवक्तव्यत्वमुद्देश्यतावच्छेदकीकृत्य तद्विचारासहत्वविधित्सयाऽष्टमोऽपि भङ्गः कुतो | न भवेत् , शब्दसाम्येऽप्यर्थभेदेन भङ्गान्तरस्य दुर्वारत्वात् , धर्मवक्तव्यत्ववदवक्तव्यावक्तव्यत्वं न भेदकमिति चेत्, न । परमतस्वमताभ्यामुद्देश्यविधेयभावस्यैव भेदकत्वात् , अन्यथा सदवक्तव्यत्वादिकमपि केवलावक्तव्यत्वभङ्गकुक्षौ प्रविश्य न भङ्गान्तरमुत्थापयेत् , किं चैवमाद्यभङ्गचतुष्टयं शुद्धघटत्वावच्छिन्नोद्देश्यताकमन्त्यभङ्गत्रयं च कल्पितसच्चाद्यवच्छिन्नघटनिष्ठोद्देश्यताकमिति प्रकृतसप्तभङ्ग चेकवाक्यताभङ्गप्रसङ्गः, प्रकारभेदेनैव तद्भेदस्याभियुक्तैरुक्तत्वात् , प्रकारश्च विधेयधर्मों वोद्देश्यतावच्छेदकधर्मो वेति न कश्चिद्विशेषः, इत्थमेव शुद्धघटादिधर्मिकसप्तभङ्गीतो नीलघटादिधर्मिकायास्तस्या अविगानेन भेद इति, यदि च सत्त्वमसत्त्वं तदुभयं च मतकल्पितमुद्दिश्य पृथगेवावक्तव्यत्वं चरमभङ्गत्रयेणाभिधीयत इति मतं तदा तादृशं नित्यत्वानित्यत्वतदुभयादिकमादाय बहवोऽपि भङ्गाः प्रकृतपर्यायविधिनिषेधकल्पनामूलत्वाभावेनैकवाक्यत्वाभावश्च स्फुट एवेति परमतापेक्षया चरमभङ्गत्रयं व्यवतिष्ठत इत्यकलङ्कदेवोक्तिर्वार्तामात्रम्, किं त्वाद्यभङ्गद्वयघटकनिजपररूपयोः शृङ्गग्राहिकया व्यवस्थापन एव नयभेदो मतभेदो वोपयुज्यते, तृतीयभङ्गास्त्ववक्तव्यत्वलक्षणस्ताभ्यां युगपदादिष्टाभ्यां तद्भेदादनेकभेद इत्येते त्रयो निरवयवद्रव्यविषयत्वात् सकलादेशरूपाः, सदसवसदवक्तव्यत्वादयश्चत्वारस्तु चरमाः सावयवद्रव्यविषयत्वाद्विकलादेशरूपाः, देशभेदं विनैकत्र तु क्रमेणापि सदसत्त्वविवक्षा सम्प्रदायविरुद्धत्वानोदेतीति न निरवयवद्रव्यविषयत्वमेषामित्यस्मदभिमतोक्तमेव युक्तमिति मन्तव्यम् । तदेतद्रहस्यं स्वसमयव्युत्पत्तिरसिकमनोविनोदाय सम्मतिगाथामिरेव व्युत्पादयामः-“अत्यंतरभूएहिं णियएहि य दोहि समयमाईहिं । वयणविसेसाईयं दवमवत्तत्वयं पडइ ॥१॥ अर्थान्तरभूतः
।।२०८॥
For Private And Personal Use Only