________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥२०७॥
www.kobatirth.org
गमकाभावात्सूक्ष्मक्षिकायां सन्निहितत्वस्य विकल्पहेतुताया एव विनिगमकत्वाच्च । वस्तुतो रजतार्थिप्रवृत्तौ रजतविशेष्यकज्ञानस्य समानप्रकारकत्वेन हेतुत्वम्, न तु रजतत्वज्ञानविशिष्टरजतज्ञानत्वेन, रजतागृहीतासंसर्गकरजतत्वज्ञानत्वादिना वा गौरवादित्यन्यथाख्यातिसाधने मीमांसकं प्रति या युक्तिरुच्यते सात्राप्यनुवर्त्तत इति रजतविशेष्यकरजतत्वप्रकारक विकल्प स्यैव प्रामाण्यादलं तजनक दर्शनप्रामाण्यप्रत्याशयेति भावनीयम् । वस्तुसंस्पर्शाभावे ( वाविशेषे) (२०० - १ - ४ ) ऽपीति, एतदुत्तरं निर्णयसंशययोरिति शेषः । ननु निर्णयस्य वस्त्वस्पर्शित्वात्तद्विषयविषयकत्वरूपं प्रामाण्यं दर्शनस्य मा सेत्सीत् तस्य दर्शनविषयसमारोपच्यवच्छेदकत्वे तु न विवाद इति तद्व्यवच्छिन्नसमारोपप्रतियोगिविषयकत्वेन दर्शनस्य प्रामाण्यं सेत्स्यतीत्याशङ्कते 'ननु 'चेति ' ( ५ ) अर्थग्रह इव समारोपव्यवच्छेदेऽपि ज्ञानस्य न स्वातिरिक्तविकल्पापेक्षा, अन्यथा स्वविषयकत्वेऽपि तत्प्रसङ्गात्तथा चानवस्थादिदोषसहस्रोपनिपातस्य दुर्निवारत्वादित्याशयवान् समाधत्ते - समारोपेत्यादिना (७) ' एतेन ( १२ ) वस्तुदर्शनस्य स्वतः स्वरूपपरिनिष्ठितत्वव्यवस्थापनेन, अतत्कार्यकारणव्यावृत्तिः (१२) अगोव्यावृत्तिः, एकप्रत्यवमर्शादिज्ञानात् गौगौरित्याद्यनुगतानुसन्धानात्, एकार्थसाधने (१२) एकव्यवहारसम्पादने, अत्यन्तभेदेऽपीति तस्याः कल्पित्वेनार्थादभेदासहिष्णुभेदेऽपीत्यर्थः । इन्द्रियादिवत् (१२) रूपादिज्ञाने चक्षुरादिवत्, ज्वरोपशमनादौ (१३) समुदिता इतरे शुण्य्यादय औषधविशेषा यत्र तादृशा ये गुडूच्यादयस्तद्वच्चेति योजनीयम् । अन्वयव्यतिरेकानुविधानं हि हेतुहेतुमद्भावे प्रयोजकं न त्वभेदोऽपीति भावः । समयादर्शिनोऽपि (१३) अतत्कार्यकरणव्यावृत्तौ सङ्केतादर्शिनोऽपि दर्शनपदं ज्ञानमात्रोपलक्षणम्, अन्वयबुद्ध्यभिधानव्यवहारः ( १४ ) अयं गौरयं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥२०७॥