SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पेक्षस्येति (८) स्वस्य शब्दस्य विषयो यो विधिर्गोत्वादिस्तन्निरपेक्षस्य तदसंसर्गीभूतस्येत्यर्थः, तत्सापेक्षो बन्यापोहस्तद्विशिष्टबुद्धौ संसर्गतया भासमानो गुणीभावमवलम्बेतापि, नीलमिदमिति प्रतीतावनीलव्यावृत्तेस्तथानुभवात्, प्राधान्येन तु प्रतियोगिनां दुर्ज्ञानत्वात्तद्द्महायोग इति भावः; तदाह-विकल्पेन चेति, (१९९-२-९) न च संसर्गांशे गुणतयाऽपि निश्चयो दुर्घटः, प्रकारांश इव संसर्गांशे विपरीतसमारोपव्यवच्छेदकस्य निश्चयत्वव्यवस्थितेरिति बोध्यम् । साधनवचनमेवाभिधाय कम्, तच्च विधिरूपं लिङ्गमेवाभिधत्ते, स्वपरत्वेन बुद्धिप्रतिबिम्बपरत्वेन वा तथोपपत्तेः, अन्यच्च वचनं सम्भावनामात्रकरमेवेत्यन्यापोहशक्त्या न कुतोऽपि शब्दानिर्णय इति शङ्कते - साधनेत्यादिना (९) एवं सति तवापसिद्धान्तः स्यादित्याह न तस्यापीत्यादिना, (१०) एवं च स्वसिद्धान्तादेव परस्यान्यापोहार्थत्वं ध्रुवमित्युक्तं भवति, वस्तुतोऽसौ परसिद्धान्त एवायुक्तः, एवं सति शब्दाद्विपरीतसमारोप व्यवच्छेदसिद्धावप्युद्देश्यविधिरूपार्थासिद्धेस्तदानर्थक्यादर्थतस्तत्सिद्धौ चैकमात्रार्थताव्याघातादित्याहसत्यपि चेत्यादिना, (१४) दृश्यविकल्प्यैकत्वग्रहाधीन एव विधिप्रत्यय इति न तस्य शब्दवाच्यत्वमित्याशङ्कय तदेकत्वग्राहकमेव खण्डयितुमुपक्रमते - दृश्यविकल्प्य योरित्यादिना (१४) । किं केन प्रमितमिति (२०० - १ - ३) विकल्पाभिधानयोवस्त्वविषयत्वादेव तदप्रमापकत्वाद्दर्शनस्य चानिश्चयरूपत्वेन तत्त्वादिति भावः । नन्वेकसन्तत्यवच्छिन्नस्वाव्यवहितपूर्ववर्त्तित्वसम्बन्धेन घटत्वावगाहिनिश्चयविशिष्टघटदर्शनत्वेन प्रामाण्यमङ्गीकरिष्यते तत्राह-न हीति (३) घटत्वावगाहित्वमात्रेण निश्चयो न समनन्तरघटदर्शनप्रामाण्याङ्गम्, संशयविपर्ययसाधारण्यादित्यर्थः, वस्तुतोऽर्थक्रियाकारित्वरूपं न तथा, अर्थक्रियाsव्यवहितप्राक्काले दर्शनस्य प्राग्नष्टस्याभावाद्विकल्पविशिष्टदर्शनत्वेन दर्शनविशिष्टविकल्पत्वेन वार्थक्रियाहेतुत्वमित्यत्र विनि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy