________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
(१९९-१-६) किंविषयविधयेत्वर्थः । अयं च वितर्को यतो व्यक्तिसामान्योभयविषयजनितेन ज्ञानेन नियमत उभयविषयतया भाव्यम् , ततः सामान्यज्ञाने विषयतयाव्यक्तीनामपि हेतुत्वौचित्यमित्याशयात् , तत्र (१९९-१-६) सामान्येन सहैकज्ञाने, तासां व्यक्तीनाम् , व्यापारः (७) कार्यजननाभिमुख्यम् , अधिपतित्वेन वेति आलम्बनभिन्नकारणत्वेन वेत्यर्थः । अनधिगमेऽपीति (८)न चेष्टापत्तिः, महत्वोद्भूतयोरप्रवेशलाघवेन द्रव्यान्यद्रव्यसमवेतचाक्षुपे चक्षुःसंयुक्तचाक्षुषसमवायत्वेन परेषां हेतुत्वेन जातिचाक्षुषपूर्व नियमतो व्यक्तिचाक्षुषकल्पनेन तस्याः कर्तुमशक्यत्वात् , नहि रूपज्ञान इति, (८) यद्यप्यालम्बनत्वेन हेतुतापि नाधिगतत्वं प्रयोजयति, किन्तु सह ज्ञेयत्वमेव, तथापि ज्ञायमानं ज्ञातमिति नयाश्रयणाददोषः । भाष्ये तल्लक्षण (लक्षितलक्षण) येति (१०) तेन सामान्येन लक्षणाऽऽक्षेपोऽर्थाद्विशेषस्य, तया वृत्तिः प्रवृत्तिर्विशेषे, कथंचित्तादात्म्येन कृत्वा भवेत् , कार्मुकादिवत् (११) कार्मुकादेरिवेति व्यतिरेके दृष्टान्तः, सम्बन्धान्तरा(रस्या)सिद्धेः (१३) तादात्म्यातिरिक्तसम्बन्धासिद्धेरित्यक्षरार्थः । वृत्तौ कथञ्चित्ता(दता)दात्म्ये तदनुपपत्ते- | रिति (१९९-२-२) यद्यपि कार्यकारणभावदेशिककालिकाधाराधेयभावादीनामतादात्म्येऽपि तत्तत्सम्बद्धव्यवहारकारित्वं दृश्यते, तथापि तत्रापि तत्तद्व्यवहारप्रयोजकशक्त्यात्मना कथश्चित्तादात्म्याभ्युपगमाददोषः, केवलं सामान्यविशेषादिसम्बन्धविचारे बहुलमभेदव्यवहारात्तेषामुद्भूतं तादात्म्यमनुभूतो भेदः, पृथक्सम्बन्धिस्थले तु वैपरीत्यमिति विशेषो बोध्यः ।। तादृशसर्वथाव्यक्तिव्यतिरिक्तत्वेनाभ्युपगतस्य सामान्यस्य, सतापीत्यादि, (४) तादृशा व्यक्तिव्यतिरिक्तेन पराभ्युपगतेन सामान्येन, सतापि परदृष्ट्या विद्यमानेनापि, अन्यव्यावृत्त्यात्मना (४) स्वातिरिक्तसामान्यव्यावृत्तेन, भवि
For Private And Personal Use Only