SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ Siri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥२०५॥ सहार्पितत्वविशिष्टे इति, प्रकृते तादृशतदवच्छेदेनान्तर्निगीर्णद्वित्वाश्रयबोधनाशक्तः स्यादवक्तव्यत्वपक्षसाम्राज्यात् । एतेनैकपदजन्यसवासचोभयप्रकारकशाब्दबोधविषयत्वं न स्यादवक्तव्यत्वशब्दार्थः, प्रतियोग्यप्रसिद्ध्या तदभावाप्रसिद्धरित्यपास्तम् , | सहार्पितसत्त्वासचोभयावच्छेदेन तृतीयभङ्गजन्यशाब्दबोधविषयत्वाभावस्यैव स्यादवक्तव्यपदार्थत्वात् , तदादिपदेन पुष्पदन्तादिपदप्रतिपाद्यस्येव सहार्पितसत्त्वासत्त्वोभयाश्रयस्य बुद्धिविषयतावच्छेदकावच्छिन्ने गृहीतशक्तिकेनापि तत्तद्धर्माशे तुहुदसंस्कारमहिम्नोपस्थितौ शाब्दबोधविषयत्वात् , अव्याप्तिवारणाय शाब्दबोधे तृतीयभङ्गजन्यत्वोक्तिः। प्रातिस्विकधर्मावच्छिन्नप्रकारताद्वयनिरूपितमुख्यविशेष्यताशालित्वं तदर्थः, विपरीतसङ्केतजन्यशाब्दभ्रमे तूक्तोभयधर्मपर्याप्तावच्छेदकताकैकप्रकारतानिरूपितविशेष्यताशालित्वेन दोषाभावादिति नव्यतर्कपरिष्कृतः पन्थाः। एतेनैव गङ्गायां मत्स्यघोषावित्यत्रेव क्वचिदेकदा वृत्तिद्वयस्याप्यविरोधात् सदादिपदेनैव शक्त्या सच्चादेर्लक्षणया वा सत्त्वादेरुपस्थितिसम्भवात् सहार्पितसत्त्वासचोभयप्रकारकशाब्दबोधसम्भवे गतमवक्तव्यत्वेनेति निरस्तम् । तृतीयभङ्गजन्यपदमहिम्नैव शक्त्येत्यस्याप्याक्षेपादिति दिग्। शेष भङ्गत्रयं | व्यस्तसमस्तद्रव्यपर्यायार्पणाहेतुकं सुबोधम् । 'स्याद्वादाश्रयणे (१९८-२-९) उक्तार्पणाभेदस्य स्याद्वादतात्पर्यज्ञं प्रत्येव सम्भवादित्यर्थः। परमतापेक्षया त्विति (१०) पक्षत्रयमत्र नैयायिकसौगतमताश्रितं व्याख्येयम् । परैर्यत्केवलं सदुच्यते यच्चासत् यच्च सदसत् तत्सर्वमवक्तव्यमित्युद्देश्यविधेयभावे तात्पर्यम् , भङ्गत्रयेप्युद्देश्यस्य प्रसिद्धिः परमतात् , विधेयस्य जैनागमात्, योगादिभिः सदादिव्यवहारविषयीकृतमस्माभिरवक्तव्यत्वव्यवहारसौधमध्यास्यत इत्यकलङ्कदेवाशयः। भाष्ये 'न खलु सर्वात्मनेति' (१२) अत्र सर्वात्मनेत्यस्य व्यक्त्यनवच्छेदकत्वरूपस्वातन्त्र्येणेत्यर्थः । किमालम्बनभावेनेति | ॥२०५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy