________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
NOLOCAL
लकदेवैय॑धायि । तत्र वस्तु सत्सामान्यं कथं सदप्यवक्तव्यमिति चेत् , तस्य पराभ्युपगमात् सतोपि वचनानुपपत्तेः । न खलु सर्वात्मना सामान्यं वाच्यं, तत्प्रतिपत्तरर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादावुपयुज्यते, स्वविषयज्ञानमात्रेपि तस्याऽसामर्थ्यात् । व्यक्तिसहितस्य सामान्यस्य तत्र सामर्थ्यपि न प्रतिपन्नसकलब्यक्तिसहितस्य सामर्थ्यम , असर्वज्ञस्य सकलव्यक्तिप्रतिपत्तेः सकृदसंभवात् । अप्रतिपन्नाखिलव्यक्तिभिः सहितस्य सामर्थ्ये पुनरेकव्यक्तेरप्यग्रहणे सामान्यज्ञानप्रसङ्गः । कतिपयव्यक्तिसहितस्य सामर्थे तस्य ताभिरुपकारानुपकारबिकल्पद्वयानतिक्रमः । प्रथमविकल्पे सामान्यस्य व्यक्तिकार्यत्वप्रसङ्गः, तदभिन्नस्योपकारस्य करणात् । ततो भिन्नस्य करणे व्यपदेशासिद्धिः । तत्कृतोपकारेणापि तस्योपकारान्तरकरणेऽनवस्थानम् । द्वितीयविकल्पे व्यक्तिसहभाववैयर्थ्यम् , अकिश्चित्करसहकारिविरहात् । सामान्येन सहकज्ञाने व्यापाराव्यक्तीनां तत्सहकारित्वेपि किमालम्बनभावेन तत्र तास व्यापारोऽधिपतित्वेन वा ? प्राच्यकल्पनायामेकानेकाकारं सामान्यविशेषज्ञानं स्यान्न पुनरेकसामान्यज्ञानं, स्वालम्बनानुरूपत्वात्सकलविज्ञानस्य । द्वितीयकल्पनायां तु व्यक्तीनामनधिगमेपि सामान्यज्ञानप्रसङ्गः । न हि रूपज्ञाने चक्षुषोधिगतस्याधिपतित्वेन व्यापारोस्त्यपूर्वस्य वा । सर्वथा नित्यस्य सामान्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधाच न तस्य कस्याश्चिदर्थक्रियायामुपयोगो, यतस्तत्प्रतिपादनाय शब्दप्रयोगः स्यात् । ततो नार्थे कस्यचित्प्रवृत्तिरुपपद्यत । लक्षितलक्षणया वृत्तिः कथंचिदतादात्म्ये न भवेत् , संवग्धान्तरासिद्धेः, कार्मुकादिवत् । न हि यथा कार्मुकपुरुषयोः संयोगः संबन्धः सिद्धस्तथा सामान्यविशेषयोरपि । न च समवायः पदार्थान्तरभूतः, तत्प्रतीत्यभावात् । प्रतीयमानस्तु समवायः कथंचित्तादात्म्यमेव, अविष्वग्भावलक्षणत्वात्तस्य । इति शब्देन लक्षितं सामान्यं विशेषान् लक्षयति । ततस्तत्रार्थकियार्थिनः प्रवृत्तिरसंबन्धानोपपद्येत, संयोगसमवायव्यतिरिक्तस्य संबन्धान्त
३४
For Private And Personal Use Only