________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
॥१९८॥
www.kobatirth.org
पर्यायाणां कालादिभिरभिन्नानामभेदोपचारादुपचरितमेकमेव वस्तु श्रमाणवाक्यस्प विषय इति न किंचिद्वाक्यं पदवदनेकार्थं सकृत् प्रधानभावेन विभाव्यते, संकेतसहस्रेणापि वाचकवाच्ययोः कर्तृकर्मणोः शक्त्यशक्त्योरनतिलङ्घनाईत्वात्कारणकार्यवदित्यन वद्यम् । अन्यथाऽचाक्षुषत्वादयः शब्दादिधर्मा न भवेयुः । शक्यं हि वक्तुं रूपवयक्षुर्ज्ञानजननशक्तियुक्तः शब्दश्राक्षुष एव रसवच रसनज्ञानजननसमर्थों रासनो, गन्धादिवच्च घ्राणादिज्ञानजननपटुर्घाणीयादिः' इति न तस्याचाक्षुषत्वारास नत्वाघाणीयत्वादयो धर्माः स्युः, अश्रावणत्वादयश्च रसादिधर्मा न भवेयुः । अतो यावन्ति पररूपाणि तावन्त्येव प्रत्यात्मं स्वभावान्तराणि तथा परिणामात्, शब्दादीनामन्यथा स्वरूपायोगात् । यदि पुनश्चक्षुरादिविज्ञानोत्पादनाऽशक्त्यतिक्रमस्य सर्वदाप्यसंभवादचाक्षुषत्वादयः शब्दादिधर्मा एव श्रावणादिज्ञानजननशक्त्यनतिक्रमाच्छ्रावणत्वादिवदित्ति मतं, तदा सदादिपदस्य सत्वाद्येकधर्मप्रतिपादनशक्त्यनतिक्रमात् प्रधानभावार्पितानेकधर्माभिधानाशक्त्यनतिलङ्घनाथ नानेकोर्थः सकृत्संभवतीत्यनुमन्यताम् । स्यादवक्तव्यमेव सर्वं युगपद्वक्तुमशक्तेरिति भङ्गचतुष्टयमुपपन्नम् । द्रव्यपर्यायौ व्यस्तसमस्तौ समाश्रित्य चरमभङ्गत्रयव्यवस्थानम् । व्यस्तं द्रव्यं द्रव्यपर्यायौ समस्तौ सहार्पितौ समाश्रित्य स्यात्सदवक्तव्यमेव सर्वमिति वाक्यस्य प्रवृत्तिः, द्रव्याश्रयणे सदेशस्य सहद्रव्यपर्यायाश्रयणे वक्तुमशक्तेर वक्तव्यत्वस्य विवक्षितत्वात् । तथा व्यस्तं पर्यायं समस्तौ द्रव्यपर्यायौ चाश्रित्य स्यादसदवक्तव्यमेव सर्वमिति वचनव्यवहारः । व्यस्तौ क्रमार्पितौ समस्तौ सहार्पित द्रव्यपर्यायौ समाश्रित्य स्यात्सदसदवक्तव्यमेव सर्वमिति शब्दप्रवृत्तिः स्याद्वादाश्रयणव्याख्यानादेवमेव चरमभङ्गत्रयस्य व्यवस्थानात् । परमतापेक्षया तु सत्सामान्यमन्वयि द्रव्यमाश्रित्य सदवक्तव्यमेव, स्वलक्षणलक्षणं विशेषं पर्यायमाश्रित्यान्यापोहसामान्यमसदवक्तव्यमेव, सामान्यविशेषौ परस्परमत्यन्तभिन्नौ द्रव्यपर्यायौ समुदितौ समाश्रित्य सदसदवक्तव्यमेवेति व्याख्यानमक
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
* % %
++++++
परिच्छेदः
प्रथमः ॥
।।१९८ ।।