________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
दीति' (१८४-२-६) सितादयो ये निर्भासा ज्ञानाकारास्तथांशपरमाणूनामवयघाणूनां संवित्तयस्ता अपि परस्परण्यावृत्तिलक्षणा इति व्याख्येयम् । परस्परविविक्तात्मात्मन इति (९) अध्याहृतस्य वस्तुनो विशेषणमिदम्,तत्र(१०) जगति, अन्वयस्य (१०) सर्वथैकत्वस्य, विशेषापेक्ष(णा)त्वा (१०) तत्त्वतो व्यावृत्तिनिरूपणाधीननिश्चयविषयत्वात्, निष्पर्यायम् (१२) अवच्छेदकभेदरहितम् , 'तदंशेति' (१८५-१-१) तदंशी सत्चासत्त्वे, चातुर्जातकम् (३) एलालवंगनागकेसरतमालपत्राणि, पानकवजात्यन्तरत्वमेव सर्वथोभयरूपत्वादिकमुदस्यतीत्याह 'सर्वथेत्यादि' (४) प्रत्येकमिति (७) सत्त्वोपाधावपि केनचिद्धMणोभयात्मकतायास्तत्रापि धर्मान्तरेण तत्तायाः स्वीकारेऽनवस्थेत्यर्थः । तथाऽनभ्युपगमे (७) धर्मान्तरे उभयरूपताननुसरणे, तत्रैव व्यभिचारात्, नोभयस्वभावमशेषं सिद्धमिति ते (७) उभयस्वभावमेवाशेषमिति प्रतिज्ञाया विरोध इत्यर्थः । स्यात्कारेणेति' (१०) स्यादुभयमित्यत्र स्यात्कारेण सत्त्वासचावच्छेदकधयोरेव परामर्शाजात्यन्तरत्वस्यार्थसिद्धत्वादिति भावः । अर्थसिद्धत्वं च तस्यौत्तरकालिकमानसबोधात् द्योत्यतावच्छेदककुक्षिप्रविष्टत्वाद्वेत्यन्यदेतत् । अनध्यबसेयम् (१३) अभिलापोपरक्तनिश्चयाविषयः, मूर्छाचैतन्यवदिति (१३) मूर्छाचैतन्यगृहितवदित्यर्थः । यथा मूर्छाचैतन्यगृहीतमप्यगृहीतकल्पं तथाऽभिलापानुपरागेण गृहीतमप्यगृहीतकल्पमित्यर्थः । न सोऽस्तीत्यादिनोक्तं (१४) वक्तव्यैकान्तमपि प्रतिक्षिपति 'सर्वात्मनेत्यादि ' (१८५-२-२) सामान्यरूपेणेव विशेषरूपेणापीति सर्वात्मनेत्यस्यार्थः । शब्दागोचरत्वेऽनभिधेयत्वापत्तेरिति (३) शब्दगोचरत्वेऽभ्युपगम्यमाने बाधापत्तेस्तदऽभ्युपगमस्यायुक्तत्वादित्यर्थः, बाधश्चाध्यक्षविषयो न अन्दविषय इदि स्फुट एव, प्रत्यक्षविषये प्रत्यक्षशब्दवाच्यत्वमादायाबाधमाशङ्कते 'प्रत्यक्षात्मके
AAA%
84%AACA
SACASSA
For Private And Personal Use Only