________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥१९ ॥
प्रपञ्चतोऽन्यत्रेति, (१८३-२-१२) एवकारप्रयोगे घटो नील एवेत्यत्र सर्वावयवावच्छिन्ननीलवत् सन्नेवेत्यतः सर्वधर्मावच्छिन्न- परिच्छेदः सत्चप्रतीतौ तदपवादाय नियतावच्छेदकस्फोरणार्थ स्यात्पदप्रयोगध्रौव्ये सावधारणः प्रयोगो युक्तोऽन्यथा तु बटः सन्निति निरव
प्रथमः॥ धारणप्रयोगोपि व्युत्पन्नस्य स्वद्रव्यादिचतुष्टयावच्छिन्नस्वरूपसत्त्वप्रकारकबोधानानुपपत्तिरित्यत्राप्यनेकान्त एव श्रेयानित्यादिकमित्यर्थः । निरूपितं चैतत्तत्वमनेकान्तप्रवेशेऽस्माभिरिति तत एवावगन्तव्यम् । अभिनिबुद्धम् , (१८४-१-३) अनुमितम् , शब्दयोजनया (३) परार्थशब्दप्रयोगेण, विकल्पनिरूपणया (३) स्ववृत्तिशब्दवृत्तिजन्योपस्थित्या, वाकारो वक्तृश्रोतस्थश्रुतानुसन्धानभेदाभिप्रायेण, इत्यनुसन्धानप्रत्ययभेदवदिति (४) यथोक्तानुसन्धानविषय एकोऽर्थस्तथाऽहमेक एव द्रष्टेत्याद्यनुसन्धानविषय आत्मापि, अन्यथोपदर्शितप्रत्ययनिर्विषयत्वापत्तेरित्यर्थः, 'तावद्धेति' (६) तावत्प्रकारैः । तदेकत्वाभावे (९) चित्रवृत्तिक्षणेऽप्यनुभूयमानैकत्वापलापे, 'नीलादीति' (१०) नीलादिविशेषेषु नियमतो निश्चयतो दर्शनं 13 स्वप्रकाशो येषां ते तथा, नानासंवेदनचित्तक्षणाः नीलादिमात्रविषयकनानाज्ञानानीति यावत् , तद्वत् तेष्विव, चित्रसंवेदनं चित्रत्वज्ञानं नानारूपसमुदायज्ञाने न स्यात् , विषयितासम्बन्धेन स्वाश्रये तेन वृत्तित्वरूपसामानाधिकरण्येन नीलेतरविशिष्टनीलवत्त्वादिनैव ज्ञाने चित्रत्वव्यवहारादित्यर्थः । अनुसन्धानमनन निबन्धनत्वमिति (११) अनुसन्धानमेकत्वप्रत्यय एव, मननं ज्ञानं तन्निवन्धनत्वं तत्कारणत्वमित्यर्थः। तादात्म्यविगमैकान्ते (११) भेदैकान्ते, अपरामृष्टभेदानाम् (१२)
अगृहीतभेदानाम् , सन्तानव्यतिरेकोऽपि (१३) भिन्नसन्तानवार्त्तित्वमपि, चित्रप्रतिपत्तेरयोगादिति (१८४-२-१) भेद-* | संलुलितामेदस्यैव तद्विषयत्वादित्यर्थः । व्याप्यवृषिव्यावृत्तिस्वभावं दर्शयित्वाऽव्याप्यवृत्तिं तं दर्शयति 'किन्त्विति (६) सिता-18॥१९॥
For Private And Personal Use Only