________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
4%
4
+6+0%A45454
योगित्वेन कथञ्चित्तद्विषयमेदस्येष्टत्वात् , संकृतस्वाकारसमुपात्तरजताकारायाः शुक्तेरेव भ्रमालम्बनत्वस्याकरसिद्धत्वात् , भ्रमबाधस्य च दुष्टकारणप्रभवत्वादिनैव सिद्धेः, सदुपरागेणासद्भानस्य च भ्रमे न्यायटीकाकृतोऽप्यभिमतत्वात् , तावन्मात्रेणा| सत्ख्यातेरभावादित्यादिकं व्युत्पादितं लतायामसाभिः॥ वस्तुतो जिज्ञासा भङ्गप्रयोजिका, न तु क्वचिदपि भङ्गे विषयाव| च्छेदिका, स्वद्रव्यादीनामेव तत्त्वस्याभियुक्तैरुक्तत्वात् , तथा च चालनीयन्यायेन स्वद्रव्यपरद्रव्यचतुष्टयाभ्यां तृतीयः, समुदितन्यायेन च ताभ्यां तुरीयः, विरुद्धघटत्वपटत्वाभ्यां किमपि न वाच्यमिति वत्, इत्थमेव घटत्वपटत्वाभ्यां घटपटौ स्त इति वाक्यस्य तात्पर्यभेदेन प्रामाण्यमप्रामाण्यं च सङ्गच्छते । शेषा भङ्गास्तूक्तयोजनात्मका एवेति न किश्चिदनुपपन्नम् । वस्त्विति (१८३-१-६) वस्तुनः क्रमार्पितोभयादेः प्रतिपत्तिर्ज्ञानं, प्रवृत्तिरभिलापादिव्यवहारः, प्राप्तिरुपलम्भोपहिता क्रिया, तासां निश्चयादविसंवादात् , द्वितीयस्येति (९) न हि द्रव्यादिसवादतिरिक्तं सत्त्वमेकं नाम नैयायिकादिमतसिद्धं सामान्यमसत्सिद्धान्तेऽस्ति, लोकैर्वा प्रतीयते, तस्य चानर्पितस्यैकत्वेऽपि विशिष्यार्पितस्य द्वितीयस्याप्यविरोध एवेति भावः, तत्र च प्रतिपक्षासत्त्वेन सप्तभङ्ग्यन्तरसम्भवान्न प्रकृतसप्तमङ्ग्यामाद्यत्तीयसंयोगेन भङ्गान्तरापचिरिति विशदयति'विशेषादेशादिति' (९) ॥ प्रथमचतुर्थयोरिति (१०) तत्रापि सञ्चादिद्वयाप्रतीरित्यर्थः, सहार्पिताभ्यां सच्चासत्वाभ्यामवक्तव्यत्वस्य धर्मान्तरस्यैवारम्भाचेन सह सवादिसंयोगेऽपि नानुपपचिः संयोगजविषयासङ्करादित्याह-'चतुर्थे' (११) इत्यादि ।। विशेषेणेति ( १८३-२-३) बक्वव्यत्वस्य कथंतागर्भत्वेन विशिष्य विश्रान्तत्वाच्छब्दानुगममात्रस्याप्रयोजकत्वात् , सत्त्वादिना वक्तव्यत्वस्य सत्त्वादिसमनियतत्वेन निराकासतया भङ्गान्तरानारम्भकत्वात् , अन्यथाऽसद्भि
4444445%8
For Private And Personal Use Only