SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥१८६॥ सप्तभङ्गीवनयसप्तभङ्ग्या अपि लक्ष्यत्वान्न तत्रातिव्याप्तिः, नययोगादिति (१८२-२-२) सूत्रकृद्वचनात् प्रमाणनयसप्तभङ्ग्योः पृथक् पृथक लक्ष्यत्वे तु सकलादेशत्वविकलादेशत्वे विशेषणे देये, एकत्र वस्तुन्येकपर्यायनिरूपितविधिनिषेधकल्पनामूलसप्तधर्मप्रकारकोद्देश्यशाब्दबोधजनकतापर्याप्त्यधिकरणं वाक्यं सप्तभङ्गी, धर्मिणो देशसर्वभेदेनैकद्विबहुवचनान्ततया चरमपदोन्नीत्या बहुमेदसम्भवेऽपि फलीभूतबोधे सप्तधर्मप्रकारकोद्देश्यताया अक्षतत्वान्नाव्याप्तिरित्यपि केचित् ! एतेनेत्यादि'(१८३-१-४) एतेन सत्त्वासत्त्वयोर्वस्तुधर्मत्वप्रतिपादनेन, क्रमार्पितोभयत्वादीनां (४) क्रमार्पितसदसदुभयत्वसहार्पितावक्तव्यत्वयोस्तदुत्तरधर्मत्रयस्य चेत्यर्थः । अथ सदसत्पदाम्यां, सत्त्वासत्त्वयोश्चकाराच्चोभयस्योपस्थितेः सदसदुभयत्वं तृतीयभङ्गविषयः केवलसच्चा| सत्त्वयोरतिरिक्तं प्रातीतिकमस्तु, न ह्येकविशिष्टापरत्वमेवोभयत्वम् , अविशिष्टयोरपि गोत्वाश्वत्वयोरुभयत्वप्रत्ययात् , उभयत्वभेदे च कथञ्चिदुभयभेदोऽप्यवर्जनीय एवेति, क्रमार्पितत्वं त्वत्र क्वोपयुज्यते, क्रमिकशाब्दबोधद्वयेच्छाविषयविषयत्वरूपस्य तस्य पदादनुपस्थितेर्वस्तुधर्माघटकत्वाचेति चेत् , न, एकत्वेन गृहीते उभयत्वप्रत्ययस्य भाक्तोभयत्वावगाहित्वात् । तत्र च क्रमार्पितत्वस्यावच्छेदकत्वात्तत्प्रत्ययस्य च द्योतकेन वाचकेन वा स्यात्पदेन सम्भवादनुपपत्त्यभावात् , अनुभूयते च स्यात् | सन् स्यादसंश्च घटइति शब्दात् क्रमाप्तिसत्त्वासत्त्वोभयधर्मवन्तममुं घटं जानामीति । एतेन सहावक्तव्यत्वादयोऽपि व्या ख्याताः। तद्व्यवहारविषयतया सिद्धानां तेषां धर्माणां दूरपववत्वात् , न च सहार्पितत्वं नावक्तव्यत्वावच्छेदकमेकदैकपदादुभयबोधो जायतामित्याकारकेच्छाविषयत्वरूपस्य तस्य बाधिते इच्छानुदयेनाप्रसिद्धत्वादिति वाच्यम् । पुत्रनाशेऽपि पुत्रदिक्षाया आनुभविकत्वेन क्वचिद्बाधितेऽपीच्छोदयात् , न चैवं भ्रमविषयस्यापि सिद्ध्यापत्तिः, तनिष्ठरजताकारप्रति HOMEHRA ॥१८६॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy