SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्वम् , ब्रह्मशशविषाणरूपसदसद्विलक्षणरूढानिर्वाच्यपदार्थोपगमे त्वस्यादृषणत्वात् , रज्जुसादावनिर्वचनीयसत्त्वस्येवानिर्वचनीयावाच्यत्वस्याप्यन्ततः प्रपञ्चे वक्तुं शक्यत्वादिति चेत् , न, अवाच्यत्वेऽनिर्वचनीयत्वस्वीकारे तन्मिथ्यात्वेन वाच्यत्वस्यैव सत्यस्य प्रसङ्गात् , तस्य च कथञ्चिद्भावे कथञ्चिद्वाच्यत्वानुप्रवेशेनानैकान्तस्यैव साम्राज्यात् , निरुक्त्यसहत्वस्यापि कथञ्चिदेव भावेन सर्वथा सत्यत्वबिरोधित्वाभावात् , अन्यथा “ यतो वाचो निवर्त्तन्ते अप्राप्यमनसा सहेति" श्रुत्या ब्रह्मणोऽप्यवाच्यत्वामननीयत्वाभ्यामसत्यत्वप्रसङ्गात् , वाग्मनोजन्यवृतिव्याप्यत्वेऽपि तत्प्रयुक्तफलाव्याप्यत्वाद् ब्रह्मणो वाच्यत्वावाच्यत्वे मननीयत्वामननीयत्वे चोपपत्स्येते, 'तदेवेदं मनसानुद्रष्टव्यम् यन्मनसा न मनुते' इत्यादिश्रुतिस्वारस्यादिति चेत् , आयातोऽसि मार्गेण । एवं हि कथञ्चिदवाच्यत्वामननीयत्वयोरेव ब्रह्मणि सिद्धेः । तद्वदेव ताभ्यां प्रपञ्चेऽपि सर्वथा सत्यत्वप्रतिक्षेपस्य कर्तुमशक्यत्वात् । अथ प्रमाणराज एव प्रपञ्चस्य सर्वथाऽनिर्वचनीयत्वं ब्रह्मणश्च सर्वथा सत्यत्वमाज्ञपयतीति न वयं तदाज्ञातिक्रमे प्रभविष्णव इति चेत्, न । तस्य स्वानुपयुक्तसत्ताप्रतिक्षेपिशुद्धर्जुमूत्रानुगृहीतशुद्धात्मद्रव्यसत्ताग्राहिसङ्ग्रहनयस्वरूपत्वात्तत्तात्पर्यावबोधे दोपलवस्याप्यभावात् , ईदृशतात्पर्यमपुरस्कृत्य प्रवृत्तो वेदान्तदुर्णयो वसन्तराज एव न प्रमाणराज इति वयं जानीमः॥१३॥ तदेवं स्वामिसमन्तभद्रभानवः स्फुटतरविलसदकलङ्कन्यायगभस्तिभिरपहस्तितसमस्तभावैकान्तादिपरमतध्वान्तसन्ततयोपि परात्मका पक्षनिराकरणसमर्थनायत्तं जयमादिशता भगवताप्तेन किं पुनर्मे शासनं प्रसिद्धेन न बाध्यते इति स्पष्टं पृष्टा इवाहुः। कथञ्चित्ते सदेवेष्टं कथञ्चिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा ॥१४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy