SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kailassagarsun Gyanmandir परिच्छेदः प्रथमः॥ अष्टसहस्री तरदण्डाभाववान् पुरुष इति ज्ञानसचिवाद्दण्डव्याप्यवान् पुरुष इति परामर्शाद्दण्डो रक्तो न वेति संशयकालेऽपि रक्तदण्डवान् विवरणम् ।। पुरुष इत्यनुमित्यापत्तेश्च, तत्तदुद्धोधकामावविशिष्टभावनात्वाभाव विशेषणनिवेशाच्च न दण्डो रक्त इत्यनुबुद्धभावनातो निरु BIक्तानुमित्युपनीतभानाद्यापत्तिः, न चैवं गौरवम् , इयतैव भावनायाः स्मृतिहेतुत्वनिर्वाहात् , उद्बोधकानां विशिष्य स्मृतिहेतु॥१८॥ त्वाकल्पनेन चातिलाघवात् , तत्तदुबोधकाभावविशिष्टभावनात्वाभावविशिष्टीयस्वरूपसम्बन्धेन घटत्वप्रकारकत्वस्य कारण तावच्छेदकत्वे तु नगौरवपणवार्ताऽपि, सम्बन्धगौरवस्यादोषत्वादित्याहुः । अविच्युतिस्मृतिवासनासाधारणधारणात्वावच्छिन्ने BI समानविषयकत्वेनापायहेतुत्वात् संस्कारसविषयकत्वसिद्धिरित्यादिकमपि ज्ञानबिन्द्रादौ विवेचितमस्माभिरिति विस्त रार्थिना तत्तत एवावधार्यम् । क्वचिदिति (१७६-१-१४) गृहीतशक्तिकेन शब्देनोद्बोधितार्थसंस्कारेणार्थस्मृतिवचादृशार्थग्रहोबुद्धाभिलापसंस्कारस्थलेऽभिलापस्मृतेरपि सम्भवादित्यर्थः, कुत इति (१७६-२-१) प्रत्यक्षादभिलापसंस्कारानुद्बोधे स्मृतिरूपतद् योजनानुपपतेः सामान्यमभिलाप्यं नस्यादेवेत्यर्थः, विशेषात् सामान्यस्य नात्यन्तमतिरिक्तत्वं, किन्तु तत्प्रतिभासात् तत्प्रतिभासस्येति स्पष्टप्रतिभासवेलायां स्खलक्षणस्य शाब्दात्मकमन्दप्रतिभासाविषयकत्वेऽपि तद्योग्यतया कथञ्चिदभिधेयत्वं तस्याबाधितमेवेति, निष्कृष्टार्थमाह-तत्र [न च] ग्राहकेत्यादि (२) व्याख्यानग्रन्थेन । तस्मादवाच्यतैकान्त इति (८) वेदान्त्यभिमतप्रपञ्चावाच्यत्वपक्षखण्डनमिदम्, खलक्षणानिर्देश्यत्ववचनादिविरोधोपदर्शनं तु दृष्टान्तपरम्, बौद्धैः सदेकान्तस्यैव स्वलक्षणेऽभ्युपगमात् , अनिर्वाच्यत्ववचनमात्रेण परेषां ब्रह्मणीव तेषां तत्र सदेकान्तपक्षानिवृत्तेः। अथ वेदान्तिमते प्रपञ्चानिर्वाच्यत्वैकान्तः कथं वारणीयोऽवाच्यैकान्तेऽवाच्यशब्देनापि वाच्यत्वं न स्यादिति दूषणस्य यौगिकपक्ष एव लब्धावसर ८- 04 ॥१८॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy