SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥१७५ ।। यस्य तत् पश्चादप्युपयोगाविशेषात् , तेनेन्द्रियज्ञानव्यपायेपि सामान्यव्यवसायः स्यात् , तस्य प्रागिवाजनकत्वात् , तदन्तरेणापि दर्श- नमयं गौरिति निर्णयः स्यात् , 'यः प्रागजनको बुद्धरुपयोगाविशेषतः । स पश्चादपि तेनाक्षयोधापायेपि कल्पना' ।।१।। इति प्रतिपादनात्। तदेवं न दर्शनादध्यवसायः संभवति येन दर्शनस्य स्वालम्बनसमनन्तरप्रत्ययजन्मतत्सारूप्याविशेषेपि स्वविषयप्रतिनियमः सिध्येत् । किश्च सौगतानामनभिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिः ? अत्यन्तभेदात् स्वलक्षणात्सामान्यस्य, सह्यविन्ध्यवत् । न हि सह्यस्यानुभवे विन्ध्यस्य स्मृतिर्युक्ता । विशेषसामान्ययोरेकत्वाध्यवसायाद्विशेषस्यानुभवे सामान्ये स्मृतियुक्तवेति चेत् , कुतस्तयोरेकत्वाध्यवसायः ? न तावत्प्रत्यक्षात , तस्य सामान्याविषयत्वात् , नापि तत्पृष्ठभाविनो विकल्पादनुमानाद्वा, तस्य विशेषाविषयत्वात् , तदुभयविषयस्य च कस्यचित्प्रमाणस्यानभ्युपगमात् । तदन्यतरविषयेण तयोरेकत्वाध्यवसायेऽतिप्रसङ्गात् , त्रिविप्रकृष्टेतरयोरप्येकत्वाध्यवसायोक्षज्ञानात्प्रसज्येत । किं च शब्दार्थयोः संबन्धस्यास्वाभाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् शब्दं श्रृण्वन् तदर्थ वा ? यतोयं व्यवसायः सौगतस्य सिध्येत् । न हि सह्यमात्रं पश्यन् विन्ध्यस्य स्मरेत् । स्यान्मतं शब्दस्य विकल्प्येन तदुत्पत्तिलक्षणसंबन्धोपगमात् तस्य च दृश्येनैकत्वाध्यवसायाद्विशेषस्यानुभवेपि शब्दं तदर्थं वा विकल्प्यं स्मर्तुमीष्टे व्यवहारी, प्रवृत्तिदर्शनात्, इति, तदप्यसम्यक् , कुतश्चिदपि दृश्यविकल्प्ययोरेकत्वाध्यवसायासंभवस्योक्तत्वात् । ततः स्वत एव व्यवसायात्मकत्वमभ्युपगन्तव्यं प्रत्यक्षस्य, न पुनरभिधानजात्यादियोजनापेक्षया । चक्षुरादिज्ञानस्य कथञ्चिव्यवसायात्मकत्वाभावे दृष्टसजातीयस्मृतिर्न स्यात्, दानहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्यसंवेदनवत् क्षणक्षयानुभवनवद्वा । व्यवसायात्मनो मानसप्रत्यक्षादृष्टसजातीयस्मृतिरिति चेत् , न, अव्यवसायात्मनोऽक्षज्ञानात् समनन्तरप्रत्ययाद्यवसायात्मनो मनोविज्ञानस्योत्पत्तिविरोधाद्विकल्पवत् , निर्विकल्पात्म 8156 ॥ १७५ 05% For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy