SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir रपेक्षसामान्यविशेषतद्वद्रव्येभ्योन्यस्य प्रत्यक्षसंविदि प्रतिभासनात, निरन्वयक्षणक्षयिनिरंशपरमाणुलक्षणस्य सुष्ठुप्रत्यक्षेणालक्षणात् । तत्र च व्यवसायोक्षजन्मा स्वाभिधानविशेषनिरपेक्षः किन्न स्यात् ? यतोयं स्वलक्षणमशब्दं न व्यवस्येत् । ततः सामान्यवत्स्वलक्षणमध्यवस्यन्नाभिलापेन योजयेत् । ततो न किञ्चित्प्रमेयमनभिलाप्यं नाम श्रुतज्ञानपरिच्छेद्य, शब्दयोजितस्य श्रुतविषयत्वोपपत्तेः । प्रत्यक्षस्यानभिलाप्यत्वे स्मार्त शब्दानुयोजनं दृष्टसामान्यव्यवसायो यद्यपेक्षेत सोर्थो व्यवहितो भवेत् तदिन्द्रियज्ञानात्सामान्यव्यवसायो न स्यात् । यथैव हि शब्दसंसृष्टार्थग्राहिसविकल्पकप्रत्यक्षवादिनामर्थोपयोगे सत्यपि स्मार्त्तशब्दानुयोजनापेक्षेऽनज्ञाने तदर्थो व्यवहितः स्यात् स्मातेन शब्दानुयोजनेन इति तदर्थादक्षज्ञानं सविकल्पकं न स्यात् , तदभावेपि भावात्तद्भावेपि चाभावादिति दूषणम् ।। ' अर्थोपयोगेपि पुनः स्मार्त्त शब्दानुयोजनम् । अक्षधीर्यद्यपेक्षेत सोर्थो व्यवहितो भवेत् ॥१॥' इति वचनात् समुद्भाव्यते, तथैव शब्दानुयोजनासहितार्थवाहिविकल्पवादिनामपि सौगतानामिन्द्रियज्ञानमुपयोगे सत्यपि विकल्पोत्पत्तौ स्मात शब्दानुयोजनं विकल्पो यद्यपेक्षेत तदा तदिन्द्रियज्ञानं स्वविषयनामविशेषस्मरणेन तद्योजनेन च व्यवहितं स्यात् । तथा च नेन्द्रियज्ञानाद्यवसायः स्यात् तदभावे भावात्तद्भावेपि चाभावादिति दूषणमुद्भावनीयं, 'ज्ञानोपयोगेपि पुनः स्मात् शब्दानुयोजनं । विकल्पो यद्यपेक्षेताध्यक्षं व्यवहितं भवेत् ॥१॥ इति वक्तुं शक्यत्वात् , अर्थशब्देन प्रत्यक्षस्याभिधानाद्वा, कचिद्विषयेण विषयिणो वचनाद्धर्मकीर्तिकारिकाया एव तन्मतदूषणपरत्वेन व्याख्यातुं शक्यत्वात् । यथा च प्रागजनको योर्थोभिलापसंसृष्टार्थेन्द्रियबुद्धेः स पश्चादपि स्मार्तशब्दानुयोजनेपि तस्योपयोगाविशेषादजनक एव तेनार्थापायेपि नेत्रधीः शब्दाद्वैतवादिनः स्यादिति धर्मकीर्तिदूषणम् , 'यः प्रागजनको बुद्धरुपयोगाविशेषतः । स पश्चादपि तेन स्यादर्थीपायेपि नेत्रधीः ।।१।।' इति वचनात् । तथा यदिन्द्रियज्ञानं स्मार्तशब्दयोजनात्प्रागजनक सामान्यव्यवसा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy