SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥१६९।। 25A4% लब्धेर्वस्त्वन्तरोपलब्धिरूपत्वान्न तल्लिङ्गकानुमानविषयत्वमप्यभावस्येत्यर्थः । 'सर्वथापीत्यादि' (५)॥ तद्विषयोऽपि (५) प्रमाणविषयोऽपि, भावस्वभावो (६) धिकरणात्माऽभावः, कस्यचिदेकस्य (६) भूतलादेः, कैवल्यमितरस्य घटादेः, वैकल्यमिति स्याद्वादिमतं नावधारयतीति, इतेरावृत्योभयत्र सम्बन्धादन्वयः । सर्वथाऽप्यभावस्य प्रमाणविषयत्वसिद्धिरिति ब्रुवन्नपि देवानांप्रियो दुर्विदग्धबौद्धः, (६)। अस्य वादिनः स्वप्रतिज्ञाविरोधं दोषमाह-सोऽयमित्यादिना (७) ॥ वस्तुस्थितिमाह-'परमार्थत इति (७)॥' 'निःश्रेणीपदबन्धाभ्यामिवेति (९) निःश्रेणीस्थानीयो भावस्वभाव आश्रयत्वात् , पदबन्धस्थानीयश्चाभावस्वभाव आश्रितत्वादिति भावः । आरोहाधिकरणत्वतत्कारणत्वाभ्यां तौल्यं भावनीयम् । भावधर्मभूताभावानभ्युपगमे भावा एव प्रमेयमित्यवधारणं न स्यात्, एवकारार्थानिरुक्ते; अवस्तुभूतस्याप्यभावस्य ग्रहार्थ प्रमाणान्तरापत्₹ एव प्रमाणे इत्यस्य व्याघातश्चेत्याह-ताथागतानां हीत्यादि (११) ॥ अर्थस्येति (१६६-१-२) अर्थस्य विषयस्य, असम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता (२) सिद्धा, प्रतिवद्धस्वभावस्य धूमादिव्याप्तिनिरूपकस्वभावस्य वह्नयादेः, तद्वेतुत्वे (२) अनुमानज्ञानहेतुत्वे, समं तुल्यम् , द्वयं प्रमाणद्वयम् , विषयसत्त्वव्याप्यत्वमेव प्रमाणत्वे प्रयोजकमिति निष्कर्षः । ननु तदुत्पत्त्यभावात् प्रत्यक्षमनुमानं वाऽभावग्राहकं माभूत् , मानसं नास्तिताज्ञानं तु तथा भवत्केन वार्यते इत्यत्राह-मानसस्य त्विति (२) प्रतिबन्धनियमाभावादिति (३) अयमनुमानभिन्नत्वे हेतुः, अक्षानपेक्षत्वाच्च प्रत्यक्षभिन्नत्वं ध्रुवमिति तृतीयप्रमाणापत्तिरिति भावः । तस्माद्वस्तुधर्मत्वेनाभावस्य विषयत्वमेष्टच्यमित्युपसंहरति इति यथोदितदोषमित्यादिना (१६६-१-३)॥ ११ ॥ AC ॥१६९॥ % For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy