SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achana Shi Kailassagarsur Gyanmandie सिद्धा यथोक्तभङ्गाः । सैद्धान्तिकास्तु क्रियाकालनिष्ठाकालयोरभेदात्सभागसन्ततिपतिततया निष्ठाभविष्यत्तयोः समावेशाचैकक्षणेऽपि कालत्रयवाचिप्रत्ययार्थाविरोधमादिशन्ति ॥ जीवादिपदार्थेषूक्तभङ्गान् सत्तायामपि योजयति, तथा सन्मात्रमित्यादिना (१६५-१-६) ॥ तस्यैवेति (६), सत्तायाः स्वरूपेण स्थाष्णुत्वे द्रव्यत्वादिविशेषितत्वेनोत्पत्त्यादिशालित्वात्तदाश्रिताः सर्वेऽपि भङ्गा अविरुद्धा इति भावः । न च विशेषणभेदेन पदार्थमेदे मानाभावादेतदनुपपत्तिः, विशिष्टाधारतामेदकल्पनापेक्षया विशिष्ट मेदकल्पनस्यैव युक्तत्वात् , भेदाभेदवादे चानन्तपदार्थकल्पनागौरवाद्यनवकाशात् ॥ 'सत्तेति' | (११) सत्ता महासामान्यरूपा, सकलपदार्था सकलाः पदार्था विद्यन्ते आश्रयत्वेन यस्याः सा तथा, विश्वरूपैर्नानाप्रकारैः सहिता, तुर्विशेषणे, किं विशिनष्टीत्याकाङ्क्षायामाह, अनन्तपर्याया (११) द्रव्यत्वाद्यनन्तविशेषणविशिष्टानन्तपर्यायैर्विशेषणभृतैर्विश्वरूपत्वं विशेष्यत इत्यर्थः । अत एव स्थितिभङ्गोत्पादार्था (११) स्थितिभङ्गोत्पादा अर्था लक्षणानि यस्याः सा तथा, स्वरूपेणैका सप्रतिपक्षा (११) च पररूपेण नास्तित्वसमावेशाद्भवतीति संवादकारिकार्थः । केवलाभावप्रतिपत्तौ बौद्धोक्तामनुपपत्तिमुपन्यस्य जात्यन्तरे वस्तुनि तदेकांशत्वान्नेयमिति तं प्रत्यनुशासितुमाह कथं पुनरित्यादिना (१६५-२-१)॥ तस्य अभावस्य, तत्कारणत्वविरोधात् प्रवृत्तिकारणत्वविरोधात् , तत्कारणत्वे स्वलक्षणतापत्तेरिति अर्थक्रियाकारित्वस्यैव स्वलक्षणलक्षणत्वादिति भावः । प्रमाणान्तरस्यापि (३) कार्यानुमानस्यापि, अस्तु तर्हि स्वभावलिङ्गकानुमानविषयत्वमनुपलब्धिलिङ्गकानुमानविषयत्वं वाऽभावस्येत्यत्राह- स्वभावानुमानत्वेऽपीत्यादि' (४) स्वभावासम्भवादिति, (५) तथा च स्वभावहेतोरभावप्रतिबन्धासम्भवान्न तस्य तद्विषयत्वमिति भावः। 'पर्युदासवृत्त्येति' (५) अनुप SAMACHAR For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy