SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इति स्वीकारे च घटादावपि सत्यभागस्य जातेः स्फोट इति नाम कुतो न स्वीक्रियते, उपाधिरूपविशेषणाभावे सर्वत्र शुद्धब्रह्मपर्यवसानाविशेषात् पर्यायार्थनयव्युत्क्रान्तार्थग्राहिणो द्रव्यार्थिकस्यापश्चिमविकल्पनिर्वचनत्वेन तत्र शब्दब्रह्मत्वमर्थब्रह्मत्वं वेति पक्षपातस्य निर्मूलत्वात् सप्तभङ्गीनये कथञ्चिदनिर्वाच्यत्वस्य विचारजन्य निर्विकल्पक ज्ञानमादायैवाविरोधात्, एतेन " इत्थं निष्कृष्यमाणं यत्, शब्दतच्चं निरञ्जनम् | ब्रह्मैवेत्यक्षरं प्राहु-स्तस्मै पूर्णात्मने नमः ॥ १॥” इति व्याख्यातम्, अर्थविनिर्मुक्तस्य ज्ञानस्येवाक्षरस्याप्यभावात्, अनन्तधर्मकत्वेऽप्यक्षरत्वस्याद्वयत्वस्य चातव्यावृत्त्या नयविशेषेणोपपत्तेः । प्रमाणतयाश्रयणेऽपि मनोमयत्ववच्छब्दमयत्वस्य ब्रह्मण्यसिद्धेः, आत्मभावसमवस्थानरूपस्य परब्रह्मण एवानेकान्तसिद्धान्तनीत्या सकलकलङ्करहितस्य विपश्चिताश्रयणीयत्वादिति शिवम् । " त्रयो व्यक्तिस्फोटा अविचलितपर्यायविषया, अखण्डौ द्वौ स्फोटौ तदनुगतसद्द्रव्यविषयौ । न तिर्यक्सामान्यात्त्रयमिह विभिन्नं च तदयं, नयानां कल्लोलः कलयति चमत्कारमभितः ॥ १ ॥ अमूहग्भङ्गानां निविडतरजालं नयकृतं प्रयाति च्छित्त्वैव प्रथितभजनास्त्रेण सुकृती । पतत्युचैवैयाकरणहरिणस्तत्र विवशो, न सिद्धिः स्याद्वादादिति य इह सूत्रं विमृशति ॥ २ ॥ स्फोटवादः सम्पूर्णः ॥ १० ॥ अन्यत्रेति [ इत्यत्रेति ] ( १५१-२-७ ) विवृणोति । " अथेतरेतराभावात्यन्ताभावानभ्युपगमवादिनां दूषणमुद्भावयिषवः प्राहुराचार्याः । सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे । अन्यत्र समवाये न व्यपदिश्येत सर्वथा ॥ ११ ॥ तदित्यनेन सर्वप्रवादिनामिष्टं तवं परामृश्यते । तदेकं सर्वात्मकं स्यात् अनिष्टात्मनापि भावादन्यापोहस्य व्यतिक्रमे । स्व For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy