SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Lain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः॥ अष्टसहस्री विवरणम्॥ ॥१६१॥ वर्णेष्वपि सत्त्वात् प्रत्येकतोऽर्थबोधापत्तिः । अनेकव्यक्त्यभिव्यङ्गयजातेरेव स्फोटत्वेनाभिधानात् , वर्णस्फोटपक्षे कथितदोषसवेऽपि पदवाक्यपक्षयो यम् , तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति निष्कर्षः । ननु का सा जातिरिति चेत्, अत्राहुः-" सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः॥१॥” इति । अत्र ब्रूमः॥ अष्टसु स्फोटेषु तावनिष्कृष्टो जातिरूपवाक्यस्फोट एव ज्यायस्तया वैयाकरणैरिष्यते, स चानेकव्यक्त्यभिव्यङ्गया जातिः, तत्वं चानेकव्यक्तिज्ञानजन्यज्ञानविषयत्वम् , तथा चानेकव्यक्तिज्ञानैरेवार्थबुद्धथुपपत्तौ किमन्तर्गडना जातिस्फोटेन, किश्च यथाकथञ्चिदनुगमार्थ जातिकल्पनेऽखण्डोपाध्यादेरुच्छेदापत्तिरिति वर्णानुपूष्यव प्रतीत्यवच्छेदकत्वयोनिर्वाह उचितः । तथैवान्वयव्यतिरेकदर्शनात् । सा च वर्णानतिरिक्तेति को वातिरिक्तः स्फोटः। न च वर्णात्मनापि नित्यत्वं युक्तम् , तदुत्पत्त्यादिप्रतीतेः सार्वजनीनत्वात् , वर्णमुच्चारयति न तूत्पादयतीति च पटं वयति न तूत्पादयतीत्यनेन तुल्यम् , अभिव्यक्तिविषयत्वमप्युत्पत्तद्रव्यार्थनयेन सर्वत्रातिप्रसञ्जकम् , पर्यायार्थिकनये चाभिव्यक्त्यंशस्य गौरवेण त्यागाच्छुद्धोत्पत्तिग्रहोऽपि सर्वत्र तुल्यः, ज्ञायमानस्य हेतोलाघवेनैकस्य स्फोटत्वे च धूमपरामर्शादिस्थलेऽप्येकः स्फोटः स्यादिति न किश्चिदेतत् । वर्णमालायां पदमिति प्रतीत्या वर्णातिरिक्तस्फोटं साधयन् दीक्षितस्त्वशिक्षितालापकदेव, एवं सत्यधिष्ठानस्य सत्यतया वर्णमालायाः सत्यत्वस्य तत्राध्यस्तस्य स्फोटस्य घटवदेवासत्त्वस्य चापत्तेः। न च वर्णाश्रितत्वेऽपि स्फोटस्य गोत्वादिवजातिरूपत्वेन नित्यत्वात् सत्यत्वमिति वाच्यम् । ब्रह्मदर्शने गोत्वादिजातेरप्यसवादनित्यत्वम् , आत्मैवेदं सर्वमिति श्रुतिवचनादिति कैयटग्रन्थपर्यालोचनतया गोत्वादिवजातिरूपस्यापि स्फोटस्याश्रितत्वेनानित्यत्वादसत्यत्वापत्तेः, तत्तद्व्यक्तिविशिष्टं ब्रह्मैव जातिस्फोट 9802047 H॥१६॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy