________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥१५६॥
परिच्छेदः प्रथमः॥
त्तद्विपरीतेन कथञ्चित् सत्त्वेन च हेतोाप्तत्वात् सर्वथाऽसतोऽपरिणामित्वे पूर्वोत्तरकालकोटिपर्यायस्पर्शासम्भवादित्यर्थः । सांख्यमतेऽप्येतदतिदिशति । 'एतेनेति' (१४) अभिव्यक्तिप्रागभावाङ्गीकारे शब्दप्रागभावस्त्यागानह इत्याह- कल्पयित्वाऽपीति (१४)' ऐतिह्यकृतविशेषमाह-'ननु चेत्यादि' (१४७-२-१) अभिव्यक्तेः शब्दपुरुषश्रोत्रभेदाभेदविकल्पासहत्वातं दपयति शब्दादभिन्नाया इत्यादिना (३) स्वरुचिविरचितदर्शनमात्रमित्यन्तेन (१४८-१-३) ग्रन्थेन ॥ इच्छामात्रेण कार्यस्यापिशब्दस्याभिव्यङ्ग्यत्वाभ्युपगमे घटादावपि तत्प्रसक्त्या सांख्य एव विजयेतेत्याह एवं हीति (३) नन्वस्तु सर्वत्र व्यङ्ग्यत्वपक्ष एव साङ्ख्यानां शब्दे च मीमांसकानां, न च व्यङ्ग्यत्वपक्षे घटप्रत्यक्षत्वं कप्रत्यक्षत्वं च दण्डादेर्विजातीयनिमित्तपवनसंयोगादेश्च जन्यतावच्छेदकं वाच्यम् , कार्यत्वपक्षे च घटत्वं कत्वं चेति तत्र लाघवमिति वाच्यम् । व्यङ्ग्यत्वपक्षेऽपि घटत्वकत्वादेलौकिकविषयितया जन्यतावच्छेदकत्वे लाघवानपायात् । न च द्रव्यत्वशब्दत्वादिप्रकारकप्रत्यक्षे व्यभिचारः । स्वाश्रयविषयितायाः कार्यतावच्छेदकतावच्छेदकसम्बन्धत्वे दोषाभावादित्याशङ्कायामाह भाष्यकृत-न हि व्यञ्जकव्यापूतिनियमेन व्यङ्ग्यं सन्निधापयतीति (५) तथा च ताल्खादिव्यापारान्नियमेन शब्दसन्निधानान स | तद्व्यङ्ग्यः, किन्तु तत्कार्य इत्यर्थः । व्यङ्ग्यत्वेऽपि ताल्वादिव्यापारेण सन्निधानं शब्दस्य सर्वगतत्वाद्भविष्यतीति मीमांसक आशङ्कते-नायं दोष इत्यादि(६) ।। घटादावतिप्रसङ्गेन तदूषयति अन्यत्रापीति (७) कपिलमते इष्टापत्तौ कारणव्यापारसन्निधानेन सदा कार्याविर्भावप्रसङ्गषणमाह-इष्टत्वादित्यादिना (७) व्यापारस्य व्यापारिणो मेदाभेदयोर्यो दोषस्तमवस्थाया अप्यवस्थावतस्तयोरतिदिशति । एतेनावस्था प्रत्युक्तेत्यादि, (१४८-२-१) परिणामेऽप्येनमतिदेशमाह-परि
AMR4XRAS
॥१५६॥
For Private And Personal Use Only