________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिद्रव्यरूपत्वे च सम्बन्धविशेषावच्छिन्नप्रतियोगिताकः स इति तत्त्वम् । पर्यायरूपतयापीति ( ६ ) नानाक्षणानुगतस्य प्रागभावपर्यायस्यैकस्यापि कल्पनादित्यर्थः । यद्यप्यनुगतगुणपर्यायाधारतया प्रत्यभिज्ञानविषयतया च न तदेकत्वं सिद्ध्यति, तथापि घटादौ घटप्रागभावादेरेकस्यैव हेतुत्वे लाघवात्तस्यैकत्वसिद्धिरिति परमार्थः । अनेकत्वेऽपि कथञ्चि देकत्वं स्याद्वाददृष्टावविरुद्धमेव शरीरादिदृष्टान्तेन तद्वक्ष्यति, स चैकानेकस्वभाव इत्यादि ( ८ ) । कारणस्येति ( १२ ) नहि कपालमालारूपघटकार्यनाशे घटकारणं जायते, विपरीतव्याप्तेरभावात् न च तदभावे घटोत्पत्तिरापादयितुं शक्यत इत्यर्थः । मृदादिद्रव्यमिति (१४७-१-२) घटप्रध्वंसे व्यवहारहेतुता तु न घटोत्तरकालवृत्तिघटाकारविकलघटद्रव्यत्वेन, उत्तरत्वस्य ध्वंसगर्भतयात्माश्रयादिदोषापत्तेः, किन्तु स्वोत्तरकालवृत्तित्वस्वाकारविकलत्वस्वद्रव्यत्वैतत्रितयसम्बन्धेन घटविशिष्टत्वेन स्वोत्तरकालावच्छिन्नत्वपरिचायि तस्वद्रव्यत्वसम्बन्धेन तद्घटविशिष्टमृदादित्वेन वेति बोध्यम् । प्रमाणार्पणया तु प्रध्वंसो द्रव्यपर्यायात्मैकानेकस्वभावश्चेति प्राग्वदेव द्रष्टव्यम् । कार्यद्रव्यं तदापादनीयमिति (८) पुरुषव्यापारनान्तरीयकत्वेन घटादेः कार्यद्रव्यत्वं साधनीयमित्यर्थः । ततश्च प्रागभावाप्रतियोगित्वेन तस्यानादित्वमापादनीयम् । घटादिकार्यद्रव्यं यदि प्रागभावाप्रतियोगि स्यादनादि स्यादित्येवमिति बोध्यम् । तदाह-' तचेत्यादि ' कार्यत्वानादित्वयोरुभयोरापादने तु प्रागभावनिवस्य न कथमपि सामर्थ्यमित्येवं व्याख्यातम् । ' आपाद्यस्यापीति' (९) स्वतन्त्रानुमानवत् प्रसङ्गापादनस्यापि प्रतिवादिदूषकत्वसामर्थ्यादिति बोध्यम् । अतिदिशति एतेनेति ( ९ ) ॥ तस्य विरुद्धत्वादिति ( १२ ) शब्दोऽभिव्यक्तेः प्राक् सन् स एवायमिति प्रत्यभिज्ञायमानत्वादित्यत्र सर्वथा प्राक् सत्ताया एव साध्यत्वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir