________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
&ा भावविलक्षणत्वात्पदार्थविशेषणत्वसिद्धेः' इत्यन्ये। तेपि न समीचीनवाचः, सर्वथा भावविलक्षणस्याभावस्य ग्राहकप्रमाणाभावात् । 'स्वोत्पत्तेः
प्रानासीद् घट इति प्रत्ययोऽसद्विषयः, सत्प्रत्ययविलक्षणत्वात् । यस्तु सद्विषयः, स न सत्प्रत्ययविलक्षणो, यथा सद्व्यमित्यादिप्रत्ययः, सत्प्रत्ययविलक्षणश्चायं, तस्मादसद्विषयः' इत्यनुमानं प्रागभावस्य प्राहकमिति चेत् , न, प्रागभावादौ नास्ति प्रध्वंसाभावादिरितिप्रत्ययेन व्यभिचारात्। तस्याप्यसद्विषयत्वान्न दोष इति चेत् , न, अभावानवस्थाप्रसङ्गात्। स्यान्मतम् , भावे भूभागादौ नास्ति कुम्भादिरिति प्रत्ययो मुख्याभावविषयः, प्रागभावादौ नास्ति प्रध्वंसादिरित्युपचरिताभावविषयः । ततो नाभावानवस्थेति, तदप्ययुक्तम् , परमार्थतः प्रागभावादीनां सार्यप्रसङ्गात् । न ह्युपचरितेनाभावेन परस्परमभावानां व्यतिरेकः सिध्येत्, सर्वत्र मुख्याभावपरिकल्पनानर्थक्यप्रसङ्गात् । यदप्युक्तम् , न भावस्वभावः प्रागभावादिः, सर्वदा भावविशेषणत्वादिति, तदपि न सम्यगनुमानम् , हेतोः पक्षाव्यापकत्वात् , न प्रागभावः प्रध्वंसादावित्यादेरभावविशेषणस्याप्यभावस्य प्रसिद्धेः, गुणादिना व्यभिचाराच्च, तस्य सर्वदा भावविशेषणत्वेपि भावस्वभावत्वात् । रूपं पश्यामीत्यादिव्यवहारेण गुणस्य स्वतन्त्रस्यापि प्रतीते सर्वदा भावविशेषणत्वमस्येति चेत् , तीभावस्तत्त्वमित्यभावस्यापि स्वतन्त्रत्वप्रतीतेः शश्वद्भावविशेषणत्वं मा सिधत् । सामर्थ्यात्तद्विशेष्यस्य द्रव्यादेः संप्रत्ययात्सदा भावविशेषणमेवाभाव इति चेत्, तथैव गुणादिः सन्ततं भावविशेषणमस्तु, तद्विशेष्यस्य द्रव्यस्य सामर्थ्याद्गम्यमानत्वात् । किञ्च प्रागभावः सादिः सान्तः परिकल्प्यते सादिरनन्तो वानादिरनन्तो वाऽनादिः सान्तो वा?, प्रथमे विकल्पे प्रागभावात्पूर्व घटस्योपलब्धिप्रसङ्गः, तद्विरोधिनः प्रागभावस्याभावात् । द्वितीये प्रागभावकाले घटस्यानुपलब्धिप्रसक्तिः, तस्यानन्तत्वात् । तृतीये तु सदानुपलब्धिः । चतुर्थे पुनर्घटोत्पत्तौ प्रागभावस्याभावे घटोपलब्धिवदशेषकार्योपलब्धिः स्यात्, सर्वकार्याणामुत्पत्स्यमानानां प्रागभावस्यैकत्वात् । यावन्ति कार्याणि तावन्तस्तत्प्रागभावाः। तत्रैकस्य प्राग
२५
54SAHASA 45
For Private And Personal Use Only