SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम्॥ परिच्छेदः प्रथमः॥ ॥१४॥ कार्यस्यात्मलाभात्प्रागऽभवनं प्रागभावः । स च तस्य प्रागनन्तरपरिणाम एवेत्येके तेषां तत्पूर्वानादिपरिणामसन्ततौ कार्यसद्भावप्रसङ्गः । तत्रेतरेतराभावरूपस्य तदभावस्योपगमानायं दोष इति चेत्, तदनन्तरपरिणामेपि तत एव कार्यस्याभावसिद्धेः किमर्थः प्राग- भावः परिकल्प्यते ?, कार्यस्य प्रागभावाभावस्वभावत्वसिद्ध्यर्थमिति चेत्, कथमेवं कार्यात्पूर्वपर्यायेण रहितेषु तत्पूर्वोत्तराखिलपरिणामेषु कार्यस्वभावत्वं न प्रसज्येत ? प्रागभावाभावस्वभावत्वाविशेषेपि कश्चिदेवेष्टः पर्यायः कार्य, न पुनरितरे परिणामा इत्यभिनिवेशमात्रम् । स्यादाकूतं 'कार्यात्प्रागनन्तरपर्यायस्तस्य प्रागभावः । तस्यैव प्रध्वंस: कार्य घटादि । न पुनरितरेतराभावो, येन तत्पूर्वोत्तरसकलपर्यायाणां घटत्वं प्रसज्येत । न च तेषां प्रागभावप्रध्वंसरूपतास्ति, तदितरेतराभावरूपतोपगमात्' इति, तदेतदपि सुगतमतानुसरणम् स्याद्वादवादिनामायातम् , स्वमतविरोधात् । प्रागभावो धनादिरिति तन्मतम् । तच्च घटस्य पूर्वानन्तरपर्यायमात्रप्रागभावस्योपगमे विरुध्यते । द्रव्यार्थादेशादनादिः प्रागभावोभिमत इति चेत् , किमिदानीं मृदादिद्रव्यं प्रागभावः ?, तथोपगमे कथं प्रागभावाभावस्वभावता घटस्य घटेत ?, द्रव्यस्याभावासंभवात् । तत एव न जातुचिद् घटस्योत्पत्तिः स्यात् । यदि पुनः पूर्वपर्यायाः सर्वेप्यनादिसन्ततयो घटस्य प्रागभावोऽनादिरिति मतम् , तदापि प्रागनन्तरपर्यायनिवृत्ताविव तत्पूर्वपर्यायनिवृत्तावपि घटस्योत्पत्तिप्रसङ्गः। तथा सति घटस्यानादित्वं पूर्वपर्यायनिवृत्तिसन्ततेरप्यनादित्वात् । ननु च न प्रागनन्तरपर्यायः प्रागभावो घटस्य, नापि मृदादिद्रव्यमात्रम्, न च तत्पूर्वसकलपर्यायसन्ततिः । किं तर्हि ? द्रव्यपर्यायात्मा प्रागभावः । स च स्यादनादिः स्यात्सादिरिति स्याद्वादिदर्शनं निराकुलमेवेति चेत् , न, एवमप्युभयपक्षोपक्षिप्तदोषानुषङ्गात्। द्रव्यरूपतया तावदनादित्वे प्रागभावस्यानन्तत्वप्रसक्तेः सर्वदा कार्यानुत्पत्तिः स्यात् । पर्यायरूपतया च सादित्वे प्रागभावात्पूर्वमप्युत्पत्तिः पश्चादिव कथं निवार्येत !, न च गत्यन्तरमस्ति । ततो न भावस्वभावः प्रागभावः, तस्य | ॥१४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy