________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥१३९॥
www.kobatirth.org
षयताशालिज्ञानहेतुतायां व्यभिचारात् परिमाणत्वाद्यवच्छिन्न प्रतियोगिता सम्बन्धावच्छिन्नपरिमाणनिष्ठविषयतानिरूपिताभावविषयताकलौकिकप्रत्यक्ष एव तद्धेतुत्वकल्पने तु दीधितिकृदुक्तरीत्याऽभावबुद्धेर्विशिष्टवैशिष्ट्य मर्यादयैव गतार्थत्वेन प्रतियोगिज्ञानस्य स्वातंत्र्येण हेतुत्वभङ्गप्रसङ्गादिति चेत्, न । समनियताभावानां भिन्नत्वाभ्युपगमे दोषाभावात्परिमाणत्वाद्यवच्छिन्नप्रतियोगितावच्छेदकयत्किञ्चिदवच्छिन्नज्ञानत्वेन हेतुत्वान्न दोषः, अत एव प्राचां घटात्यन्ताभावादेर्घटादितत्प्रागभावतत्प्रध्वंसप्रतियोगिकत्वेऽप्येकग्रहे प्रत्यक्षत्वमित्यपरे, वस्तुतो घटत्वेन पटघटज्ञानयोर्दोषान्तर्भावानन्तर्भावाभ्यां पृथक्कारणत्वस्य प्रागुक्तत्वात्कार्यतावच्छेदककोटावव्यवहितोत्तरत्वदानावश्यकत्वात्समनियताभावप्रत्यक्षस्थले न व्यभिचारः । इत्थमेव लघुधर्मेऽभावस्य प्रतियोगितावच्छेदकत्वसम्भवे गुरौ तदभावेन कम्बुग्रीवादिमत्त्वावच्छिन्नविषयताशालिज्ञानोत्तरं घटत्वावच्छिन्नप्रतियोगितासम्बन्धेन कम्बुग्रीवादिमत्त्वावच्छिन्नप्रकारता निरूपिताभावविषयताशालिनः कम्बुग्रीवादिमान्नास्तीत्याकारकस्य प्रत्यक्षस्योपपत्तिः, घटत्वावच्छिन्नाभावप्रत्यक्षे घटत्वावच्छिन्नविषयताशालिन इव कम्बुग्रीवादिमत्त्वावच्छिन्नविषयताशालिनोऽपि ज्ञानस्य हेतुत्वात्कार्ये स्वाव्यवहितोत्तरत्वस्यैव च व्यभिचारवारकत्वात्, कम्बुग्रीवादिमन्निष्ठकम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगितावगाहनेन च तत्र प्रामाण्याप्रामाण्योभयव्यवस्था श्रद्धेया, अन्ये तु कम्बुग्रीवादिमत्त्वावच्छिन्नविषयताशालिज्ञानकाले कम्बुत्वावच्छिन्नविषयताशालिज्ञानस्यावश्यकतया तदुत्तरं कम्बुत्वावच्छिन्न प्रतियोगिता का भावलौकिकप्रत्यक्षाभ्युपगमेन तदभावांशेन तेन सम्बन्धेन कम्बुग्रीवादिमदवगाहत्वात् कम्बुग्रीवादिमान्नास्तीति श्रमस्वीकारान्नानुपपत्तिरित्याहुः । न च तथापि तेजस्त्वप्रकारकज्ञानं विना जायमाने इदन्त्वादिना तेजः सामान्याभावरूपतमः प्रत्यक्षे तथाविधाभावलौकिकप्रत्यक्षं प्रति तेज
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥१३९॥