________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
किकप्रत्यक्षापत्तेर्दुर्वारत्वात्, न च घटत्वविषयक घटज्ञानत्वेन तादृशहेतुत्वान्नानुपपत्तिः, घटपटत्वनिर्विकल्पकोत्तरं तत्समूहालम्बनोत्तरं च तथाविधाभावलौकिकप्रत्यक्षापतेर्दुर्वारत्वात्, किन्तु घटत्वावच्छिन्नविषयताशालिज्ञानत्वं कारणतावच्छेदकम्, घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षत्वं कार्यतावच्छेदकमिति बोध्यम् । नन्वेवमपि घटत्वेन पटभ्रमदशायां घटत्वावच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षापत्तिर्दुर्वारा, न चेष्टापत्तिः, तथाविधाभावप्रत्यक्षस्य प्रतियोग्यंशे घटत्ववैशिष्ट्यभ्रमजनकीभूतदोषस्य तदाऽसच्वेन घटत्वेन पटाविषयकतया घटत्वेन घटज्ञानासच्वेन तद्विषयकतया च नेत्याकारक प्रत्यक्षपर्यवसन्नत्वेनेष्टापत्तेरसम्भवात् । न च तथाविधप्रत्यक्षं प्रति घटत्वावच्छिन्नघटविषयताशालिज्ञानत्वेन हेतुत्वान्नोत्तापत्तिः, तथाविधदोपदशायां घटत्वेन पटज्ञानसत्त्वे तादृशाभावांशे घटत्वेन पटावगाहिनो भ्रमात्मकप्रत्यक्षस्यानुपपत्तेः न च तादृशफलोपपत्तये घटत्वेन पटज्ञानस्यापि पृथग्धेतुत्वं कल्पनीयम्, तादृशज्ञानेन फलजनने तथाविधदोषस्य सहकारित्वकल्पनाच्च न पूर्वप्रदर्शितापत्तिरिति वाच्यम्, अनन्तकार्यकारणभावकल्पनापत्तिदोषानुद्धारादिति चेत्, न । प्रामाणिकगौरवस्यादोषत्वात् । यत्तु घटत्वेन पटादिज्ञानकाले घटाभावांशे घटत्वेन पटभानजनकी भूतदोषस्य तत्तत्क्षण सम्बन्धरूपस्य नियमतः सत्त्वान्न ताहशज्ञानदशायां नेत्याकारकप्रत्यक्षापत्तिरिति तमानन्तततत्क्षणसम्बन्धादीनां दोषत्वे प्रमाणाभावात्तत्कल्पने गौरवाच्च, अथ तथापि तद्धर्मावच्छिन्नप्रतियोगिताका भावलौकिकप्रत्यक्षं प्रति तद्धर्मावच्छिन्नविषयताशालिज्ञानत्वेन न हेतुहेतुमद्भावः, समनियतसंख्यापरिमाणाद्यभावानामैक्येन संख्यादिज्ञानोत्तरोत्पन्नसंख्यात्वाद्यवच्छिन्नप्रतियोगिताकाभावलौकिकप्रत्यक्षस्य परिमाणत्वाद्यवच्छिन्नप्रतियोगिताकाभावविषयतया परिमाणत्वाद्यवच्छिन्नप्रतियोगिताका भावलौकिकप्रत्यक्षे परिमाणत्वाद्यवच्छिन्नवि
२४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir