________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
साधनव्यभिचारात्, सोपि प्रतिभासकार्याद्यभेदेपि कस्यचिदेकत्वं साधयतीति साध्यसाधनयोरभेदे किं केन कृतं स्यात् ?, पक्षविपक्षादेरभावात् । कस्यचिद्धि सन्मात्रदेहस्य परब्रह्मणस्तद्वादी एकत्वं प्रतिभासनात्तत्कार्यात्तत्स्वभावाद्वा साधयेदन्यतो वा १, तच साधनं साध्यादभिन्नमेव, अन्यथा द्वैतप्रसङ्गात् । साध्यसाधनयोरभेदे च किमेकत्वं केन प्रतिभासकादिना निर्णीतं स्यात्, पक्षस्य विपक्षस्य सपक्षस्य चाभावात् । साध्यधर्माधारतया हि प्रसिद्धो धर्मी पक्षः । स च सर्वेषामर्थानां धर्मिणामप्रसिद्धौ ततोन्यत्वेन साध्यधर्मस्य चैकत्वस्यासंभवे कथं प्रसिध्येन्नाम ? विपक्षश्च तद्विरुद्धस्ततोन्यो वा नाद्वैतवादिनोऽस्ति । तथा सपक्षश्च साध्यधर्माविनाभूतसाधनप्रदर्शनफलस्तस्य दूरोत्सारित एव तत्सिद्धौ वा भेदवादप्रसिद्धिः । पराभ्युपगमात्पक्षादिसिद्धेरदोष इति चेत्, न, स्वपरविभागासिद्धौ पराभ्युपगमस्याप्यसिद्धेः । एतेन यदुक्तं, सर्वेऽर्थाः प्रतिभासान्तः प्रविष्टाः प्रतिभाससमानाधिकरणतयाऽवभासमानत्वात् प्रतिभासस्वात्मवदिति ब्रह्माद्वैतस्य साधनं तदपि प्रत्याख्यातम् । आम्नायात्तत्सिद्धिरित्यप्यसम्भाव्यम्, तस्यापि साध्यादभेदे साधनत्वायोगात् । ततः साध्यसाधनयोरभेदे किं सत्ताद्वैतं केनानुमानेनागमेन प्रत्यक्षेण वा प्रमाणेन साधितं स्यात्, पक्षसपक्षविपक्षाणामाम्नायस्येन्द्रि यादेश्चानुमानागमप्रत्यक्षज्ञानात्मकप्रमाणकारणस्याभावान्नैवं तत्कृतं स्यात् । न क्वचिदसाधना साध्यसिद्धिः, अतिप्रसङ्गात् । साधनं . हि प्रमाणं साध्यते निश्चीयतेऽनेनेति । तद्रहिता न साध्यस्य प्रमेयस्य सिद्धिः, शून्यतादिसिद्धिप्रसङ्गात् । स्वरूपस्य स्वतो गतिरिति तु संविदद्वैतवादिनोपि समानम् । किं बहुना, सर्वस्य स्वष्टतत्त्वं प्रत्यक्षादिप्रमाणाभावेपि व्यवतिष्ठेत, स्वरूपस्य स्वतो गतेः । इत्यतिप्रसङ्ग एव, पुरुषाद्वैतवदनेकान्तवादस्यापि सिद्धेः, संविदद्वैतवदनेकसंवेदनस्यापि सिद्धेः । इति न सत्ताद्वैतं निष्पर्यायं शक्यमभ्युपगन्तुम् । विचारयिष्यते चैतत् प्रपचतोऽमे । तदलमतिप्रसङ्गेन । ततो भावा एव नानात्मादय इति भावैकान्तोऽभ्युपगम्यताम् । तत्र
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir