________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ १३६ ॥
www.kobatirth.org
लब्धिः पुनस्तस्यासिद्धिमेव व्यवस्थापयेत् इति ततोपि न तत्प्रमितिः । भावानाममुपलब्धेस्तत्प्रमितिरित्यपि न सम्यक्, ततो भावान्तरस्वभावस्यैवाभावस्यावभासनात् । एतेन विरोधिलिङ्गान्निरुपाख्यस्याभावस्य प्रमितिरपास्ता । सदुपलम्भकप्रमाणपञ्चकनिवृत्तेस्तत्प्रमितिरित्यपि मिथ्या, तस्या अपि निरुपाख्यत्वे कचित्प्रमितिजननासंभवात्, आत्मनः सदुपलम्भकप्रमाणपञ्चकरूपत्वेनापरिणामस्य प्रसज्यप्रतिषेधरूपस्य प्रमाणत्वविरोधात् । यदि पुनरन्यवस्तुविज्ञानरूपा तन्निवृत्तिस्तदा न ततो निरुपाख्यस्य प्रमितिः, वस्त्वन्तररूपस्यैवाभावस्य सिद्धेः । न च प्रकारान्तरमस्ति किचित् । इति कुतस्तत्प्रमिति: १, मा भूनिरुपाख्यस्याभावस्य प्रत्यक्षतोऽन्यतो वा प्रमाणात्प्रतिपत्तिस्तथापि न सत्ताद्वैतस्य सिद्धिः, वस्तुनानात्वस्यैव ततः परिच्छित्तेरित्यपरतः तस्यापि वस्तुनो नानात्वं बुद्ध्यादिकार्यनानात्वात्प्रतीयेत, नान्यथा, अतिप्रसङ्गात् । तदपि व्यभिचार्येव, विपक्षेपि भावात् । तथा हि स्वभावाभेदेपि विविधकर्मता दृष्टा युगपदेकार्थोपनिबद्धदृष्टिविषयक्षणवत् । न ह्येकत्र नर्तक्यादिक्षणे युगपदुपनिबद्धदृष्टीनां प्रेक्षकजनानां विविधं कर्म बुद्धिव्यपदेशसुखादिकार्यमसिद्धम्, येन तस्य स्वभावाभेदेपि विविधकर्मता न भवेत् । शक्तिनानात्वं प्रसवविशेषात् । स चेद् व्यभिचारी, कुतस्तद्गति: ? तस्यापि शक्तिनानात्वोपगमान्न बुद्ध्यादिः प्रसवविशेषो व्यभिचारीति चेत्, न, अनवस्थाप्रसङ्गात्, नर्तक्या दिक्षणैकशक्तावपि बुद्धयादिकार्यनानात्वाच्छक्तिनानात्वप्रसङ्गात् तथा तच्छक्तावपि । इति सुदूरमपि गत्वा बुद्ध्यादिप्रसवविशेषसद्भावेपि शक्तिनानात्वाभावे कथं नासौ व्यभिचारी स्यात् ? इति कुतो वस्तुनानात्वगतिः ? केवलमविद्या स्वभावदेश कालावस्थाभेदानाऽऽत्मनि परत्र वा सतः स्वयमसतीं . मिध्याव्यवहारपदवीमुपनयति, यतः क्षणभङ्गिनो भिन्नसंततयः स्कन्धा विकल्पेरन्नन्यथा वा इति सत्ताद्वैतवादी विशेषानपह्नवीत तद्रूपादिस्कन्धानां द्रव्यादिपदार्थानां वा निरुपाख्याभावानामिव, परमार्थतः क्षणिकत्वाक्षणिकत्वतदुभयानुभयरूपत्वादिविशेषसाधनेपि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥॥ १३६ ॥