SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः॥ अष्टसहस्री | भावो नाप्रत्यक्षस्तच्चातिरिक्तं घटत्वादितादात्म्यरूपं वेत्यन्ये, ब्राह्मण्याद्यभावप्रत्यक्षे तु विशुद्धमातापितृजन्यत्वाभावनिश्चयोऽपि विवरणम्॥ हेतुरित्यागृह्यम् । एवमनया दिशा सौगतेनापि विचित्रा योग्यताऽवश्यमाश्रणीयेत्यभिप्रायः। ततोऽन्यथेति (३) उक्तान्यप्रकारेण योग्यताभावे लिङ्गे(३)ऽनुपलब्धिलक्षणे सति संशयोऽसद्व्यवहारविषयत्वस्य भवति । अभावप्रत्यक्षजनकत्वेनाभिमताया यो॥१२९॥ ग्यानुपलब्धेरेवासद्व्यवहारविषयत्वनिश्चायकत्वादिति भावः। एवंविधस्य (४) उपलब्धिलक्षणप्राप्तस्य, सतोऽनुपलभ्यमानस्य, अन्यत्र(४) उक्तातिरिक्तस्थले,तस्य (४) असद्व्यवहारविषयत्वस्य, असपक्षासत्त्वलक्षणस्य (६) विपक्षव्यावृत्तिलक्षणस्य, तदवचने (६) समर्थनावचने,सङ्गरस्येव (९) प्रतिज्ञाया इव, हेतुरूपत्वापायापत्तरिति (१३) यद्व्यतिरेकेऽनुमितिजनकतावच्छेदकावच्छिन्नहेतुज्ञानव्यतिरेकस्तस्यैव हेतुरूपत्वेन विपक्षव्यावृत्ततया हेत्वभिधानरूपसमर्थनस्यैव हेतुरूपत्वासिद्धेरित्यर्थः। तदाह, अन्यथानुपपन्नत्वस्यैवेत्यादि(१३)प्रतिपाद्यानुरोधत इति (१२३-१-१)प्रतिपाद्याशयाननुरोध्यसाधनाङ्गवचनस्यैवाधि कनिग्रहस्थानत्वेनगणनादित्याशयः। प्रतिपाद्यानुरोधतोऽपीति (२) गौरवेणोक्तविशेषणदानमनिच्छन्त इति भावः। किमपि महाद्भुतमिति (११)शब्दप्रसिद्धिपरितोषप्रतिपाद्याशयानुरोधादिप्रयोजनवशात् कृतकत्वादित्यादौ कप्रत्ययोच्चारे सत्त्वमात्रेण नश्वरत्वसिद्धावप्युत्पत्तिमत्त्वकृतकत्वादिहेत्वादरे चाधिकनिग्रहस्थानममन्यमानाः अन्यतरेण सिद्धौ दृष्टान्तान्तरपक्षादिवचने च, तदिच्छन्तो भवन्त्येव हि परीक्षकाणामाश्चर्यकल्पतरव इति भावः। एतेन पर्वतो वह्निमान् धूमवचादिति हेतुप्रयोगो न विधेयः। किन्तु धूमादित्येवेति नव्यचातुर्यमपास्तम् । यथाशब्दपरितोषमुभयोपपत्तेर्भावप्रत्ययार्थसम्बन्धपक्षे हेत्वन्तरभावाच, न च हेत्वन्तरयोगेाधिक्यमपीत्युपपादितमधस्तात् , नापि नीलधूमादित्यत्र व्यर्थविशेषणत्ववभूमादित्यस्य स्थाने धूमप्रागभावादिति ॥१२९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy