SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir विवेकेनेति(१२२-२-२)नास्त्यात्मरूपं प्रतिभासो यत्र तद्विवेकेनेति व्युत्पत्त्याऽयोग्यभेदेनेत्यर्थः । तेन प्रतियोगिप्रतियोगिव्याप्येतरयावत्प्रतियोग्युपलम्भकसमवधानरूपकारणान्तरसाकल्यरूपायां योग्यतायां प्राचीनाभिमतायामपरितुष्यन्नवीनसौगतः प्रति योगिनः स्वरूपयोग्यतामविसंगृह्णन् योग्यताया अननुगतत्वमाह, चकारस्यापि व्यवस्थार्थत्वसम्भवात् , तथा चात्र विचारयन्ति नैयायिकाः । केयं योग्यानुपलब्धिरिन्द्रियसम्बद्धविशेषणताया अभावग्रहे सहकारिणी, न तावद् योग्यस्य प्रतियोगिनोऽनुपलन्धिर्जलपरमाणौ पृथिवीत्वाभावग्रहापत्तेः स्तम्भे पिशाचभेदग्रहानापत्तेश्च, नापि योग्येऽधिकरणे प्रतियोगिनोऽनुपलब्धिः सा, भूतले पिशाचात्यन्ताभावग्रहापत्तेः, परमाणौ महत्त्वाभावग्रहानापत्तेश्च, न चात्यन्ताभावग्रहे योग्यप्रतियोग्यनुपलब्धिरन्योन्याभावग्रहे च योग्येऽधिकरणे प्रतियोगितादात्म्यानुपलब्धिः सहकारिणीत्यपि साम्प्रतम् , जलपरमाणौ पृथिवीत्वात्यन्ताभावग्रहापत्तेः, परमाणौ महत्त्ववद्भेदग्रहस्य वायाबुद्भूतरूपवतेंदग्रहस्यानापत्तेश्चेष्टापत्तेश्चानुभवविरोधेन कर्तुमशक्यत्वादिति चेत् , योग्यसहकारिसम्पन्नानुपलब्धिः कारणम् , अत एवान्धकारे न घटाभावग्रहश्चक्षुषः तत्रालोकाधिकरणसन्निकर्षस्य हेतुत्वात् , न वा जलपरमाणौ पृथिवीत्वाभावग्रहः योग्यसन्निकर्षाभावात् , इन्द्रियसनिकृष्टमहत्त्वोद्भूतरूपवद्विशेषणताया एव पृथिवीत्वाभावग्रहे योग्यसभिकर्षत्वात् , उद्धृतरूपाभावग्रहे विन्द्रियसनिकृष्टमहत्त्ववद्विशेषणता योग्यः सन्निकर्षोऽतो मनसि न तद्हो भवति, भवति च महति वायो, एवमन्यत्रापि सन्निकर्षयोग्यता कार्यवशादुन्नेया, पिशाचात्यन्ताभावस्त्वयोग्यत्वादेव न गृह्यते, का पुनरत्यन्ताभावस्य योग्यता योग्यमात्रप्रतियोगिके योग्यधर्मावच्छिन्नप्रतियोगिताकत्वम् , एवं च घटत्वाभावो न घटत्वत्वेन न वा जातित्वादीना प्रत्यक्षो घटत्वत्वजातित्वादेरतीन्द्रियघटितत्वादिति सर्वथैवाप्रत्यक्ष इति दीधितिकृतः। तत्तव्यक्तित्वेन घटत्वाद्य RECA%A5%-45500RACCE For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy