SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पपत्तेरिति (१०६-१-२) तथा च विचित्राभिसन्धित्वाभावाद् व्यापारादिसांकर्याभावस्तद्विशेषाञ्चातिशयः सर्वज्ञे सिद्ध्यत्येवेति भावः । नन्वसिद्धमेतद्विपरीतव्याप्तेरत आह, 'कुतश्वायमिति ' (१०६-१-३) सत्र (१०६ - १-५) सुगतेऽस्य शरीरित्वादेः, सन्दिग्धविपक्षव्यावृत्तिकत्वात् (१०६-१-५) अप्रयोजकत्वाहितव्यभिचारसंशयास्कन्दितत्वादित्यर्थः । अप्रयोजकत्ववीजविपक्षबाधकतर्काभावप्रचिकटविषयाऽऽह, विज्ञानप्रकर्ष इति (१०६ - १ - ५) प्रतिबन्द्या समाधत्ते, ' तत एवेत्यादि ' ( १०६-१-६ ) तत एवाप्रयोजकत्वाहितव्यभिचारसंशयादेव, दुर्बलबलवदनुमानयोरविशेषापन्नं प्रतिवादिनमाक्षिपति' सोऽयमित्यादि ' (१०६-१-७ ) कथमनुन्मत्त इति ( १०६-१-८ ) उन्मत्त एवेत्यर्थः । आक्षेपान्तरमाह, कैमक्याचेत्यादि ' कैमर्थक्याच किमर्थाच, सन्तानान्तरे (१०६-१-८ ) स्वभिन्नयज्ञदत्तादिसन्ताने, तथा स्वसन्ताने क्षणक्षयस्य स्वर्गप्रापणशक्त्यादेश्व दानादिक्षणभिन्नतया, विशेषस्येष्टिः प्रतिज्ञा, सर्वज्ञत्वाद्यतिशय इव तत्र चिप्रकृष्टस्वभाववच्त्वस्याविशेषात्, तत्रापि संशयसम्भवात् तत एव चित्रज्ञानस्य ज्ञानाद्वैतस्य वा विशेष्यस्य कथमिष्टिः कथं वा प्रमाणभूतत्वादिना सुगतगतस्य विशेषस्येति स्वाभ्युपगमविरुद्धमेतदखिलमिति भावः, प्रमाणभूतस्येत्यादिना (१०६१ - ९ ) प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिन ' इति सुगतस्तोत्रप्रतीकोत्कीर्त्तनं कृतं वृत्तिकृता, क्वचित् सामान्ये विशेषव्यभिचारदर्शनात् विशेषतावपि तद् दृष्टान्तोपष्टम्भेन व्यभिचारसंशयोद्भावनेऽनुमानमात्रोच्छेदप्रसङ्ग इत्याह, ' न चैवं वादिन इति ' (१०६ - १ - १० ) निरभिसन्धीनामित्यनन्तरम् अनुमानानामिति विपरिणतस्यानुषङ्गः, निर्गतोऽभिसन्धिर्विशेषाभिप्राय येभ्यस्तेषामनुमानानां वह्निचूतत्वादीनां ज्ञायमानलिङ्गानामपि, बहुलं भूम्ना, कार्यस्वभावानियमस्य २० For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy