________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
प्रत्यक्षविषयताया इन्द्रियसन्निकर्षप्रयोज्यत्वेन ज्ञाने सन्निकृष्टबाह्यार्थविषयत्वोपपत्तावपि स्वविषयतानुपपत्तेः स्वविषयतायाः प्रत्यक्षत्वनियताया अभ्युपगमात्तादृश्याश्च तस्याः प्रयोजकाभावादिति चेत्, न । प्रत्यक्षविषयतामात्रस्येन्द्रियसभिकर्षप्रयोज्यत्वे मानाभावादसनिकृष्ट बहुलं प्रत्यक्षविषयतायास्तत्र तत्रोपपादितत्वाच्छुक्तिसनिषेऽपि रजतविषयकप्रत्यक्षस्य सार्वजनीनत्वाच्चे|न्द्रियसन्निकर्षवद्दोषादेरपि प्रत्यक्षविषयताप्रयोजकत्वाभ्युपगमे च तादात्म्येन ज्ञानस्यापि तत्त्वं किमिति न रोचयेः । ज्ञानस्य ज्ञानान्तरवेद्यत्वेऽनवस्थानाद् ज्ञानमानसादौ चाक्षुषादिसामग्र्यादेः प्रतिबन्धकत्वाकल्पनलाघवाच्च स्वसंवेद्यताया एव युक्तत्वादिति दिक् । 'विजातीयत्वाभिमतयोरिति' (१०२-१-९) सत्त्वादिना सजातीययोरपि जलानलयो लत्वानलत्वाभ्यां विजातीययोर्यथा नोपादानोपादेयभावश्चार्वाकैरभ्युपगम्यते, तथाऽस्माभिर्भूतचैतन्ययोरिति साजात्यविशेषस्योपादानोपादेयभावप्रयोजकत्वं नाप्रामाणिकमिति भावः। 'पार्थिवत्वादिनेति' (१०२-१-१०) नन्वेवं घटत्वपटत्वाद्यवच्छिन्ने कपालत्वतन्तुत्वादिना हेतुत्वं न स्यादिति चेत्, न । तथाहेतुत्वेऽपि ययोरुपादानोपादेयभावस्तयोः पदार्थविभाजकोपाधिना साजात्यमिति नियमस्याभङ्गात् । साजात्यविशेषेण नियतारम्भस्य सुव्यवस्थितत्वात् , केचित्तु नास्त्येव पटत्वाद्यवच्छिन्ने तन्तुत्वादिना हेतुत्वमत एव क्वचिद्वितन्तुकपटादेस्तन्त्वन्तरसंयोगे पटाद्युत्पत्तिर्घटते, एकैकतन्तुसंयोगे द्वितन्तुकादेर्नाशे त्रितन्तुकाद्युत्पत्तिः, पुनरेकैकतन्तु
वियोगे त्रितन्तुकादिनाशे द्वितन्तुकाद्युत्पत्तिरिति कल्पनाया गौरवग्रासादित्याहुः-'असदेतत् , अनन्यथासिद्धान्वयव्यतिरेकाMI नुविधानात् तथाहेतुत्वसिद्धेः त्रितन्तुकपटादेरपि तन्तावेवोत्पत्तिस्वीकारात् युगपत्तन्तुत्रयादिसंयोगे तन्तोरेव तदुत्पत्तेर्दर्शनात् ,
द्वितन्तुकादिक्रमेणोत्पन्नचतुरादितन्तुकपटस्य द्वितन्तुकासमवायिकारणसंयोगनाशाद् द्वितन्तुकादिनाशक्रमेण नाशोऽन्तरा पुन
ACESARKARYALASAR
For Private And Personal Use Only