________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्री| दिध्वंसरूपाया एव परमाणूत्पत्तेः स्वीकारादिति युक्तं पश्यामः । 'शब्दादिरिति' (१०१-१-९) अनेनानुमानेन शब्दस्य विवरणम् ॥ भाषावर्गणोपादानत्वं विद्युदादेश्वाम्याधुपादानत्वं साधनीयमिति भावः । तयोभिन्नलक्षणत्वादिति (१०१-१-१२) भिन्नं
लक्षणं तयोर्वहिरन्तर्मुखतया च प्रतीयमानत्वमेवेति द्रष्टव्यम् । तत एव भिन्नलक्षणत्वादेव तदाह-अयमेव हि भेदो भेदहेतुर्वा ॥१०९॥
यद्विरुद्धधर्माध्यासः कारणभेदश्चेति अस्मदादिप्रत्यक्षत्वादिति असदाद्यनेकप्रतिपत्तृप्रत्यक्षत्वादित्यर्थः । तेन ज्ञाने न व्यभिचारः, घटादिवदिति न चैवं घटादावेव पक्षतावच्छेदकसाध्यसामानाधिकरण्यसिद्धरनुमानवैफल्यमिति शङ्कनीयम् । पृथिवीतरेभ्यो भिद्यत इत्यत्रेव प्रकृते पक्षतावच्छेदकावच्छेदेन साध्यासिद्धेरुद्देश्यत्वेन तदवैफल्यमित्यभिप्रायात्, न चोपचरितेनेति (१०१-२-५) अन्यथोपचरितधूमेन बाष्पादिना वह्वयादेरपि व्यभिचारडिण्डिमोद्घोषः सकर्णकर्णारुन्तुदः स्यादिति
भावः । स्वतो बहिर्भूतेति तथा च प्रकृते बहिरर्थप्रदं स्वभिन्नपरमेवेति भावः । स्वभिन्नत्वमपि न स्वप्रतियोगिकभेदवत्व४ मा यत्किश्चिद् यावद्विकल्पयोः, आये स्वस्मिन्नेव स्वभेदप्रसङ्गात् , अन्त्ये च कुत्रापि तदप्रसिद्धेः सचादिना भेदस्य कुम्भा
दावप्यभावात, किन्तु स्वनिष्ठज्ञानत्वावच्छिन्नप्रतियोगिताकमेदवत्त्वम्, तच्च सुखादिसंवेदनापेक्षया सुखादावपि सिद्धम्, इति न तत्र बहिरर्थपरिच्छेदकत्वासिद्धिरित्याशयेनाह 'कुम्भादिवेदनस्यापीति (१०१-२-७) सुखादीति' सुखादेः कारणं सातवेदनीयकर्मोदयादिः, तत्संवेदनस्य कारणं च ज्ञानावरणकर्मक्षयोपशमादिः, इत्येवं कारणभेदादप्यनयोर्भेदो न केवलमाल्हादनपरिच्छेदाकाररूपलक्षणभेदादिति भावः। 'तस्यैवेति' (१०१-२-१०) विषयनिर्मुक्तज्ञानानुभवाभावात्तदुपरक्तस्यैव तस्य स्वांशे स्वसंवेदकत्वं विषयांशे च परसंवेदकत्वमविरुद्धमिति भावः । अविरुद्धं पश्याम (१०२-१-५) इति ननु कथमेत्तदविरुद्धं
॥१०९॥
For Private And Personal Use Only