________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
अष्टसहस्री विवरणम् ॥ ॥१०७॥
परिच्छेदा प्रथमा
वाऽनपेक्षितालोकसन्निवेः रूपोपलम्भात् । न चैव संवित्करणपाटवयोरप्वभावे विवक्षामात्रात्कस्यचिद्वचनप्रवृत्तिः प्रसज्यते, संवित्करण- वैकल्ये यथाविवक्षं वाग्वृत्तेरभावात् । न हि शब्दतोर्थतश्च शास्त्रपरिज्ञानाभावे तब्याख्यानविवायां सत्यामपि तद्वचनप्रवृत्तिदृश्यते, करणपाटवस्य चाभावे स्पष्टशब्दोच्चारणं, बालमूकादेरपि तत्प्रसङ्गात् । ततश्चैतन्यं करणपाटवं च वाचो हेतुरेव नियमतो, न विवक्षा, विवक्षामन्तरेणापि सुषुप्त्यादौ तदर्शनात् । न च दोषजातिस्तद्धतुर्यतस्तां वाणी नातिवर्तेत, तत्प्रकर्षापकर्षानुविधानाभावाद्वयादिवत् । न हि यथा बुद्धेः शक्तेश्च प्रकर्षे वाण्याः प्रकर्षोऽपकर्षे वाऽपकर्षः प्रतीयते, तथा दोषजातेरपि, तत्प्रकर्षे वाचोपकर्षात् तदपकर्षे एव तत्प्रकर्षात् , यतो वक्तुर्दोषजातिरनुमीयेत । सत्यपि च रागादिदोषे कस्यचिद्बद्धेयथार्थव्यवसायित्वादिगुणस्य सद्भावात् , सत्यवाक्प्रवृत्तेरुपलम्भात् , कस्यचित्तु वीतरागद्वेषस्यापि बुद्धेरयथार्थाध्यवसायित्वादिदोषस्य भावे वितथवचनस्य दर्शनाद्विज्ञानगुणदोषाभ्यामेव वाग्वृत्तेर्गुणदोषवत्ता व्यवतिष्ठते, न पुनर्विवक्षातो दोषजातेर्वा । तदुक्तं "विज्ञानगुणदोषाभ्यां वाग्वृत्तेर्गुणदोषता । वान्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ॥१॥” इति । ततः साधूपादेशि 'तत्रेष्टं मतं शासनमुपचर्यते' इति । तत्प्रसिद्धेन न बाध्यते । प्रमाणतः सिद्धं प्रसिद्धम् । तदेव कस्यचिदाधनं युक्तम् । विशेषणमेतत्परमतापेक्षम् , अप्रसिद्धेनाप्यनित्यत्वाद्येकान्तधर्मेण बाधाऽकल्पनात् । नबनेकान्तशासनस्य प्रत्यक्षतः सिद्धोस्त्यनित्यत्वधर्मों बाधकः, सर्वथा नित्यत्वादिधर्मवत् । अनुमानासिद्धो बाधक इति चेत्, नर्ते प्रमाणात्प्रतिबन्धसिद्धरभ्यु पगमात् । न खलु परेषां प्रत्यक्षमग्निधूमयोः क्षणभङ्गसद्भावयोर्वा साकल्येन व्याप्ति प्रति समर्थम् , अविचारकत्वात्सन्निहितविषयत्वाच्च ।
अस्मदादिप्रत्यक्षं हि साध्यसाधनयोाप्तिग्राहि परैरभ्युपगन्तव्यं, न योगिप्रत्यक्षम्, अनुमानवैयर्थ्यप्रसङ्गात्, योगिप्रत्यक्षेण देशतः कायतोवा निश्शेषसाध्यसाधनव्यक्तिसाक्षात्करणे समारोफ्स्याप्यभावात् तब्यवच्छेदनार्थमप्यनुमानोपयोगायोगात्। तच निर्विकल्पकमिव
&
॥१०७४
For Private And Personal Use Only