SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir परिच्छेदः अष्टसहस्री विवरणम् ॥ प्रथमः॥ EXSHRAME ॥९२॥ स्वपरिणाममात्रहेतुको न भवति कादाचित्कत्वात् , व्यतिरेके जीवत्ववत् , परपरिणाममात्रहेतुको न भवति जीवधर्मत्वाद् , व्यतिरेकेज्जीवत्ववत् , स्वपरपरिणामहेतुको भवति कार्यत्वान्माषपाकवदित्यनुमानत्रयं द्रष्टव्यम् । प्रथमे कादाचित्कत्वं न कालवृत्त्यभावप्रतियोगित्वं, स्वपरिणाममात्रहेतुके भव्यत्वे तत्सत्त्वेन व्यतिरेकव्याप्ती व्यभिचारात्, किन्त्वभूत्वा भावित्वं, विसभागसन्तत्यवच्छिन्नकार्यत्वं वा तत् , व्यतिरेके दृष्टान्तीभूतस्य जीवत्वस्य च व्यञ्जनपर्यायतया स्वरूपतोऽहेतुकत्वेऽपि शुद्धर्जुसूत्राभिम| तार्थपर्यायामेदनिरूपितं स्वपरिणाममात्रहेतुकत्वं, तच्च कार्यतावच्छेदकानवच्छिन्नत्वेनोपस्थित एव विवक्ष्यत इति नार्थपर्याया| न्तरेऽतिप्रसङ्गः। द्वितीयेऽप्यनयैव रीत्या परपरिणाममात्रहेतुकत्वं परमिष्टः पारिणामिकभावइति मुक्तात्मनस्तत्प्रसङ्गो विपर्यये बाधक उक्तो ग्रन्थकृता। तृतीये कार्यत्वस्योद्भूतकार्यत्वादित्यर्थः, तेन जीवत्वादौ न व्यभिचारो नित्यत्वेनार्पिते तत्रानित्यामेदारोपप्रयुक्तकार्यत्वादित्यस्यानुद्भुतत्वादिति ध्येयम् । ' साध्यापरिज्ञानादिति' (८९-१-११) उद्देश्यानुमितिविषयापरिज्ञानादित्यर्थः, साध्या उद्देश्यानुमितिविषयः तस्य दोषावरणात्यन्ताभावस्य अनिष्टत्वान्मुक्तित्वेनानाभिमतत्वात् , तस्य मुक्तित्वे सदात्मनोमुक्तिप्रसङ्गात् (८९-१-१२) त्रैकालिक्यास्तादात्म्यपरिणामनिवृत्तेरत्यन्ताभावत्वादोषावरणयोस्तादात्म्यपरिणामस्य चात्मनि नित्यनिवृत्तत्वादिति भावः। यद्यप्यावरणतादात्म्यमात्मतो नित्यनिवृत्तमभ्युपगन्तुंशक्यम् , भिन्नद्रव्यत्वात् ,दोषतादात्म्यन्तु न तत्कालावच्छिन्नतत्वादात्म्यस्यात्मन्यवर्जनीयत्वात् ,तथाप्येकसत्त्वेऽप्युभयाभावाभ्युपगमेनावरणोदयपरिणतिरूपदोषाभिप्रायेण वेदमभिधानमिति मन्तव्यम् । तत एव प्रसिद्धत्वादेव, तदेव स्पष्टीकर्तुमाह प्रागविद्यमानस्येत्यादि (८९-१-१३) प्रध्वंसाभावे साध्ये न सिद्धसाध्यतेत्युपदर्शयति नच लोष्टादावित्यादिना (८९-१-१४ S ॥ ९२॥ HARE For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy