SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersun Gyanmandit ननु निरस्तोपद्रवः सन्नात्मा कथमकलकोपि विप्रकर्षिणमर्थ प्रत्यक्षीकुर्यात् । नहि नयनं निरस्तोपद्रवं विगलिततिमिरादिकलकपटलमपि देशकालस्वभावविप्रकर्षभाजमर्थ प्रत्यक्षीकुर्वत् प्रतीतं, स्वयोग्यस्यैवार्थस्य तेन प्रत्यक्षीकरणदर्शनात् । निरस्तमहोपरागाग्रुपद्रवोपि दिवसकरः प्रतिहतघनपटलकलङ्कश्च स्वयोग्यानेव वर्तमानार्थान् प्रकाशयन्नुपलब्धो, नातीतानागताननयोग्यानिति जीवोपि निरस्तरागादिभावकर्मोपद्रवः सन् विगलितज्ञानावरणादिद्रव्यकर्मात्मककलकोपि च कथं विप्रकृष्टमर्थमशेष प्रत्यक्षीकर्तुं प्रभुः ? मुक्तात्मा भवन्नपि न चोदनाप्रामाण्यप्रतिबन्धविधायी, धर्मादौ तस्या एव प्रामाण्यप्रसिध्धेः, मुक्ताामनस्तत्राप्रमाणत्वात् , तस्यानन्दादिस्वभावपरिणामेपि धर्मज्ञत्वाभावादप्रतिषेध्यत्वात् , तदुक्तं, “ धर्मज्ञत्वनिषेधस्तु केवलोऽऽत्रोपयुज्यते । सर्वमन्यद्विजानॅस्तु पुरुषः केन | वार्यते ॥ १ ॥” इति वदन्तमिव स्तोतुः प्रज्ञातिशयचिकीर्षया भगवन्तं प्रत्याहुः ।___'दोषावरणयोरिति' (८८-२-६) दोषावरणयोर्हानिः क्वचिदात्मनि निःशेषा भवति । अतिशयवतीत्वात् , या हानिरतिशायिनी सा स्वचिनिःशेषा भवति यथा कनकपाषाणादौ किट्टकालिकादिबहिरन्तर्मलहानिरिति प्रयोगोऽत्र द्रष्टव्यः । अत्रातिशायिनीत्वमाश्रयमेदव्यापारप्रयुक्ताल्पाल्पतरबहुबहुतरप्रतियोगिकत्वं, निःशेषत्वं च स्वसमानाधिकरणस्वप्रतियोगिजातीयग्रागमावकालीनभिन्नत्वम् , अतो न जातिरूपातिशयपरमुक्तिसंक्रमाद्यसम्भवप्रयुक्तदोषावकाशः। यदि चैवमपि साध्यहेत्वोwधिकरणत्वमुत्प्रेक्षते, तदा दोषावरणहानित्वं पक्षीकृत्य तत्र निरूक्तातिशयितवृत्तित्वेन निःशेषवृत्तित्वसाधने तात्पर्य द्रष्टव्यम्। देशतो | निर्दोषत्वस्येति (८८-२-७) यद्यपि देशतो दोषहानेर्देशतो निर्दोषत्वं न कार्यम् , अभेदे कार्यकारणभावविरोधात् , तथापि | तदुपलक्षिता देशतः शुद्धिः स्वानुभवसाक्षिका कार्यत्वेन द्रष्टव्या।'स्वपरिणामहेतुक एवेत्यादि' (८८-२-१३) अत्राज्ञानादिः RSSERIES For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy