SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वज्ञस्यैकदेशो धर्मस्तपस्येत्यर्थः, अस्मिन् पक्षे ' दृष्टो न चैकदेशोऽस्ति लिङ्गं वेति' वक्ष्यमाणसामानाधिकरण्योपपत्तिरिति ध्येयम् । तत्र गम्यगमकसमुदायमध्याल्लिङ्गमेकदेशो ग्राह्य इति त्वाकरे स्पष्टम् । अनिश्चितपक्षधर्मत्वस्य हेतोरगमकत्वादनिश्चिते च धर्मिणि हेतोः पक्षधर्मत्वनिश्चयस्य कर्तुमशक्यत्वान्न केनापि लिङ्गेन सर्वज्ञानुमानं भवतीत्यर्थः । 'अतिप्रसङ्गादिति' (४३-२-४) अलावूनि निमजन्तीत्यादेरपि प्रामाण्यप्रसङ्गादित्यर्थः । कर्मार्थवादप्रधानत्वादिति हिरण्यगर्भ प्रकृत्य स सर्वविदित्याद्यभिधानस्य कर्मकाण्डफलीभूतहिरण्यगर्भस्तुतिमात्रपरत्वादित्यर्थः, तात्पर्यासम्भवादित्यनन्तरं (४३-२-५) यथाश्रुत इति शेषः । 'आदिमदित्यादि' (४३-२-७) अनादिनित्यागमो यदि सर्वज्ञमादिमन्तं प्रतिपादयति तदा स किमभूद् भवति भविष्यति वा कल्पत्रयेऽपि विरोध एवेति भावः । न च मन्त्रार्थवादानामिति (४३-२-१०) वेदो द्विविधो मन्त्रब्राह्मणभेदात् , तत्र ये वेदभागाः प्रयोगसमवेतमर्थ प्रकाशयन्तः स्वोच्चारणमात्रेण साध्यकर्मणि विनियुज्यन्तेऽभियुक्तयाज्ञिकैश्च मन्त्रत्वेन समाख्यायन्ते ते मन्त्रास्ते च ऋग्यजुःसामभेदेन त्रिप्रकाराः, अवशिष्टो भागो ब्राह्मणं, तच्च विध्यर्थवादभेदाद् द्विधा, तत्र विधिलिडादिगो वाक्यसन्दर्भः, अर्थवादः स्तुतिनिन्दाभेदाद् द्विविधः, चोदनाशेषत्वं तत्सामान्यलक्षणं, स पुनरर्थवादो द्विविधोऽपि त्रिविधः, तदुक्तं-" विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्वादादर्थवादनिधा मतः" ॥१॥ इति, तदिह मत्रार्थवादानां यथाश्रुते तात्पर्य नावकल्प्यते, किन्तु न्यायप्राप्त एवेति नोक्तार्थवादात् सर्वज्ञसिद्धिरिति व्यक्तोऽर्थः । स्यादाशङ्का धर्माद्युपदेशकरणान्यथानुपपच्या सर्वज्ञसिद्धिर्भविष्यति, तत्र विकल्पद्वयमुपतिष्ठते, को द नामात्र धर्माधुपदेशोऽन्यथानुपपद्यमानो वाच्यः, सौगतादिसम्बन्धी त्रयीवित्सम्बन्धी वा, नाद्यः, व्यामोहादेव चौद्धादीनां ॐॐॐॐॐ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy