________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kallassagersuri Gyanmandir
अष्टसहस्री विवरणम्॥
परिच्छेदः प्रथमः॥
॥८३॥
सवग्याईणि हुंति फडाई । दुट्ठाणियाणि मीसाणि, देसघाईणि सेसाणि ॥ १॥" ति, तत्र सर्वघातिरसस्पर्द्धकेषु परिणामविशेषेण देशघातितया परिणमितेषु क्षायोपशमिका अबध्यादिगुणाः प्रादुःषन्ति, तदाह-णिहएसु सब्बघाईरसेसु फडेसु देसघा- ईणं । जीवस्स गुणा जायंति ओहिगुमणचक्खुमाईआ॥१॥" एवं चात्रौदयिकभावानुविद्धःक्षायोपशमिकभावः प्राप्तः, अनन्तानुबन्ध्यादिसर्वघातिमोहप्रकृतीनां रसस्तु सर्वोऽपि सर्वघातिप्रकृतिस्वाभाव्यात्तत्रांशेनापि देशघातितया परिणमनमशक्यमिति तास्त्रौदयिकभावाननुविद्ध एव विपाकोदयविष्कम्भकरणात्मा क्षायोपशमिको भावो भवति, केवलज्ञानकेवलदर्शनावरणीययोस्तु | विपाकोदयविष्कम्मेऽप्ययोग्यत्वमनन्यगत्या कल्प्यते, अन्यथा तयोः क्षयोपशमप्रसङ्गात् , अधिक मत्कृतज्ञानबिन्दौ । तदेवं भावेन्द्रियेष्वौदयिकभावानुविद्धस्य क्षयोपशमस्य हेतुत्वात्तेषामावरणनिबन्धनत्वसिद्धिरावरणक्षयोपशमत्वेन क्षीणोपशान्तावरणत्वेन वा हेतुत्वमित्यत्र विनिगमनाविरहस्याप्येतदर्थसाक्षित्वात् , यदि चैवमौपशमिकक्षायिकादिभावस्थलेऽतिप्रसङ्ग इति, तदाऽस्तु लाघवात् क्षयोपशमघटकं क्षयभागं परित्यज्यावरणविपाकविपाकोदयविष्कम्भस्यैव स्वसंवलितोदयसम्बन्धेन हेतुता, उपशमात् क्षयोपशमविशेषस्य प्रदेशानुभवेनैवाभिधानात्तेन दाहे नष्टमणित्वेनेव भावेन्द्रिये क्षीणोपशान्तावरणत्वेन न हेतुत्व| मित्युक्तावपि न क्षतिरिति मन्तव्यम् , मीमांसक प्रत्यवतिष्ठते- ननु चेत्यादि' (४३-१-१४) नहि तत् साधकं प्रत्यक्षं सम्भवतीति (४३-२-१) प्रत्यक्षस्य तावत्प्रतिनियतासन्नरूपादिगोचरचारित्वेन परसन्तानवर्तिसंवेदनवेदनमात्रेऽपि नशक्तिः, किं पुनरतीतानागतवर्त्तमानसूक्ष्मान्तरितादिस्वभावसकलपदार्थसाक्षात्कारिसंवेदनशालिपुरुषविशेषपरिच्छेदे, विशेषाग्रहणे विशिष्टाग्रहणादिति भावः । तदेकदेशस्येति' (४३-२-२) स एकदेश आश्रयो यस्य तस्येत्यर्थः, यद्वा तस्य धर्मिणः
SEASOKHASH
॥३॥
34
For Private And Personal Use Only