SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailasagersuri Gyanmandir घटसामान्यमिति ग्रहकाले ततस्तदभावात्तत्त्वग्रहश्च विचाराधीन इति विचारकशीलत्वात् सामान्यप्रत्यासत्तेरुहत्वमागतं, वस्तुतस्तस्या यावदाश्रयज्ञाने द्वित्त्वादावपेक्षाबुद्धेरिख वैजात्येनैव हेतुत्वमुचितमिति तस्या एवोहाख्यत्वं प्रमाणान्तरत्वं च युक्तिमत् , एतेन, स्मरणादिसाधारणसामान्यविषयकज्ञानत्वेनैव हेतुता सामान्यप्रकारकप्रत्यक्षत्वेन कार्यता, स्मरणादिकालेऽपि सामान्याश्रयप्रत्यक्षमिष्टमेव, सामान्यप्रत्यासत्तिजन्यचाक्षुषादौ सामान्यप्रकारकलौकिकचाक्षुषसामय्या आवश्यकत्वाद् द्वितीयक्षणे सामान्यप्रकारकचाक्षुषोत्यच्या तृतीयक्षणे यावत्सामान्याश्रयप्रत्यक्षस्य भवतोऽप्यावश्यकत्वात् सामान्यप्रकारकत्वेन कारणत्वमनादृत्य द्वितीयक्षणे तदुत्पादाभ्युपगमे क्षतिविरहात्, एवं निर्विकल्पोत्तरमपि यावत्सामान्याश्रयप्रत्यक्षमिष्टमेव । द्वितीयक्षणे विशिष्टबुद्धशुत्पत्त्या तृतीयक्षणे तदुत्पादाभ्युपगमस्य भवतोऽप्यावश्यकत्वात् , न च सामान्यविषयकज्ञानत्वेन हेतुत्वे विषयतात्वेन प्रकारताविशेष्यतादीनामवच्छेदकत्वापेक्षया प्रकारतात्वेन प्रकारतामात्रस्यैव तथात्वमुचितमिति वाच्यम्, सामान्यप्रकारकज्ञानत्वेन हेतुत्वे लौकिके उपनीतभाने च व्यभिचारवारणाय लौकिकान्यमुख्यविशेष्यतायाः कार्यतावच्छेदककोटौ दाने गौरवात् , तदपेक्षया कारणतावच्छेदककोटौ विषयतात्वेन निवेशस्यैवोचितत्वादित्यादि नवीनोक्तमप्यपास्तम् , निर्विकल्पकस्याविचारकत्वेनाप्रत्यासत्तित्वात् सामान्यविषयकज्ञानत्वेन हेतुत्वायोगात् , एकसम्बन्धेन सामान्यविषयकज्ञानात् सम्बन्धान्तरेण सामान्याश्रयप्रत्यक्षाभ्युपगमस्यानुभवविरुद्धत्वेन तद्वारणाय सम्बन्धविशेषावच्छिन्नविषयतानिवेशध्रौव्ये निर्विकल्पकग्रहायोगाच्च, किश्च निर्विकल्पकस्य प्रत्यासत्तित्त्वे घटत्वप्रत्यक्षकाले द्रव्यत्वसत्त्वादीनामपि प्रत्यक्षस्यावर्जनीयत्वात् , घटत्वनिर्विकल्पकद्वितीयक्षणे यावद्घटप्रत्यक्षवत् यावद्र्व्यप्रत्यक्षस्य यावत्सत्प्रत्यक्षस्य चापत्तिः, सा चानिष्टेति, यस्य यावत्सामा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy